This page has not been fully proofread.

प्रथमाश्वासः ।
 
काव्यलिङ्गम् । अतस्तादृश सौभाग्यानधेस्तस्याः का पुनरन्या धुनी
धन्येति भावः ; 'भेदं चालकनन्दाख्यं यस्याः शर्वोऽपि दक्षिणम् ।
दधार शिरसा प्रीत्या तां गङ्गां को न पूजयेत् ॥' इति पुराण-
वचनात् । अत्र समासोक्तिरलंकारः ॥ ५० ॥
 
तस्याः पातुं सुरगज इव व्योनि पश्चार्धलम्बी
त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ।
संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ
स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा ॥ ५१ ॥
अय तत्सलिलपानाय प्रवृत्तौ तस्याः शोभाविशेषं भाविनमुत्प्रे-
क्ष्याहृ— तस्याः पातुमिति । सुरगज इव श्यामवर्णः कश्चिद्दिग्गज
इव। व्योम्नि पश्चार्धलम्बी शरीरस्यापरार्धेन गगने लम्बमानः;
'पश्चार्धेन प्रविष्टः शारपतनभयाद्भूयसा पूर्वकायम्' इतिवत् ।
'विनापि पूर्वपदेन पश्चभावो वक्तव्यः' इति पश्चभावः । एतच
सुरगजस्यैव विशेषणम्। ततश्चोपरिगते पिहितधबलदन्तत्वात्संपूर्णौ-
पम्यसिद्धिः । मेघस्य तु पयः पानायावतरतः पूर्वभागेनैष लम्बनस्या-
बश्यंभावान्न तथात्वम् । अच्छस्फटिकविशदं कलङ्काद्यनुपहतस्फटि-
कशिलावन्निर्मलम् । अतो जलान्तरेभ्यो धावल्यातिशय उक्तः ।
तर्कयेश्चेत् मनसा निरूपयेर्यदीति यद्यर्थोक्तिः सरस्वतीजलस्य गृही-
तस्य क्वचिद्वर्षणाप्रसङ्गात् कुत्रचिदुचितस्थले त्वया दृष्टिः कृताचेत-
दानीमेव तदीयजलपिपासावकाशः, नो चेददृष्टार्थमभिगमनमात्रं भा-
बीति योतयति। तिर्यग्भूत्वा प्रतिस्रोतः स्थातुमशक्तेरुभयतटस्पृष्टको-
.