This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
काव्यलिङ्गम् । अतस्तादृश सौभाग्यानिधेस्तस्याः का पुनरन्या धुनी

धन्येति भावः ; 'भेदं चालकनन्दाख्यं यस्याः शर्वोऽपि दक्षिणम् ।

दधार शिरसा प्रीत्या तां गङ्गां को न पूजयेत् ॥' इति पुराण-

वचनात् । अत्र समासोक्तिरलंकारः ॥ ५० ॥
 

 
तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी

त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ।

संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ

स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा ॥ ५१ ॥

 
तत्सलिलपानाय प्रवृत्तौ तस्याः शोभाविशेषं भाविनमुत्प्रे-

क्ष्याहृ—ह-- तस्याः पातुमिति । सुरगज इव श्यामवर्णः कश्चिद्दिग्गज

इव। व्योम्नि पश्चार्धलम्बी शरीरस्यापरार्धेन गगने लम्बमानः;

'पश्चार्धेन प्रविष्टः शारपतनभयाद्भूयसा पूर्वकायम्' इतिवत् ।

'विनापि पूर्वपदेन पश्चभावो वक्तव्यः' इति पश्चभावः । एतच्

सुरगजस्यैव विशेषणम्। ततश्चोपरिगते पिहितधलदन्तत्वात्संपूर्णौ-

पम्यसिद्धिः । मेघस्य तु पयः पानायावतरतः पूर्वभागेनै लम्बनस्या-

श्यंभावान्न तथात्वम् । अच्छस्फटिकविशदं कलङ्काद्यनुपहतस्फटि-

कशिलावन्निर्मलम् । अतो जलान्तरेभ्यो धावल्यातिशय उक्तः ।

तर्कयेश्चेत् मनसा निरूपयेर्यदीति यद्यर्थोक्तिः सरस्वतीजलस्य गृही-

तस्य क्वचिद्वर्षणाप्रसङ्गात् कुत्रचिदुचितस्थले त्वया दृष्टिः कृताचेत-
त्त-
दानीमेव तदीयजलपिपासावकाशः, नो चेददृष्टार्थमभिगमनमात्रं भा-
बीति

वीति द्
योतयति। तिर्यग्भूत्वा प्रतिस्रोतः स्थातुमशक्तेरुभयतटस्पृष्टको-
.