This page has been fully proofread once and needs a second look.

अथ कोकिलान्योक्तयः
 
कोऽयमकारणकरुणः कोकिलकुलनायको मम श्रवसि ।
पञ्चमरुतगलदमृतैस्सिञ्चति कटुफेरवारवज्वलिते ॥ ५ ॥
 
कल्याणं भवतेऽस्तु कोकिलकुलाकल्पाय येन श्रुति-
क्रूरकोष्टुरुतार्दितं कलरवैर्विश्वं समाश्वासितम् ।
अत्यन्ताभ्यसनाभ्युदित्वरबृहन्नादावबोधोल्लस-
च्छब्दब्रह्मरसानुभूतिजनितानन्दौघनिष्यन्दिभिः ॥ ६ ॥
 
पिकाधीश त्वं नः श्रवणपुटपेयामृतरसैः
प्रणादैरव्याजोपकृतिकृतसम्पूर्णसुकृतैः ।
यमालम्ब्यानन्दं वितरसि तरूणां पतिरसौ
रसालो दीर्घायुः किसलयसमृद्ध्या विजयताम् ॥ ७ ॥
 
वनभुवि जडजन्तुसन्ततायां
कलयसि किं कलकण्ठ कण्ठशोषम् ।
मदय मदनकेलिलोलकान्ता-
कमनमनः प्रमदावने स्वनेन ॥ ८ ॥
 
रसालो विख्यातः कलविहगनादास्पदमिति
द्रुतं नाकाल्लोकादवतरति हंसोऽत्र कुतुकी ।
प्रयातास्ते दिष्ट्या पिक बलिभुजः कर्णविरसा
रसालस्य ख्यातिं प्रथयितुमसावेव समयः ॥ ९ ॥