This page has been fully proofread once and needs a second look.

कविकौमुदी
 
प्रथमं शतकम्
 
धन्वी धुन्वीत कोऽप्यंहस्संगरे यस्य दस्युभिः ।
चक्रोबभूव चापोऽपि तद्गुणोऽपि शरोऽपि च ॥ १ ॥[^1]
 
अनुसंहितं हृदि यदीयबृंहितं
भवसृष्टिसाधनसमष्टिरीशितुः ।
इदमस्तु वस्तु शिवताति निस्तुल-
द्यति कन्धरानधरसिन्धुराकृति ॥ २ ॥[^2]
 
अहोबलसुधीगर्भसुधाम्बुधिसुधाकरः ।
कल्यलक्ष्मीनृसिंहाख्यः[^3] करोति कविकौमुदीम् ॥ ३ ॥
 
तत्खेलन्तु मम त्रिलोकभुवनस्थेमोपरामोद्धुर-
श्रीबालाचरणारविन्दकरुणाधारानुकारोज्ज्वलाः।
तीव्रभ्राम्यद मन्दमन्दरधरप्रक्षुण्णदुग्धार्णव-
त्वङ्गतुङ्गतरङ्ग रिङ्गणघनोज्ज़म्भा निगुम्भा गिराम् ॥ ४ ॥
 
Abbreviations: A: Paper Ms. (complete), B: Palm-leaf Mss. ( fragment )-both from
Mysore. M: Incomplete Ms. of Madras described in the Descriptive Catalogue
of Sanskrit Mss. Vol. XX pp. 8021-3. The text followed is mainly of A.
 
1. M. has the following invocation of Ganapati at the beginning in lieu of अनुसंहितं
 
which is the second verse here:-
वस्तु तद्वस्तुतः सद्वज्जगदाभति यत्सतः ।
निस्तुलस्वस्तिलाभाय हस्तिमस्तकमस्तु वः ॥
 
2. M has two more invocatory verses after this before verse अहोचल etc. which is
 
third in our text : -
 
भिन्ते यत्तनुकान्तिरन्तरुदितध्वान्तत्रजं योगिनां
यत्सेवा निगमागमाब्धितराणः सा भारती मदिराम् ।
क्रव्यादकथनोत्कदिक रिघटाकण्ठावलीचङ्कणद्-
घण्टाजालघणघणारवजयोत्कण्ठामकुण्ठ क्रियात् ॥
 
(Cf. the second half of this verse with II. 2 infra).
 
आर्द्रागिः कुपितां करोहतकषामा सदुपमियत:
 
प्रेक्ष्य स्वां जननीं पिधाय नयने भीत्या कराभ्यां द्रुतम् ।
पश्यन्नङ्गुलिरन्ध्रतस्तव सतो नात्रेति घुष्यन् भृशं
घातो मूर्छुपा गाढमनया कृष्णः स पुष्णातु नः ॥
3. M कविर्लक्ष्मीनृसिंहार्यः