This page has been fully proofread once and needs a second look.

अत्र स्वेच्छया कृतो विश्लेषः सकृदपि दोषः ।
 
चलण्डामररूपोऽसौ रणेऽभूदतिभीषणः ।
यमालोक्य हतच्छाया बभूवुरिह शत्रवः ॥
 
अत्र 'चलण्डामर' इत्यत्र 'बभूवुरिह' इत्यत्र च सन्धिकृताऽश्लीलता ।

कार्वीशेनाऽयमर्वार्वाक् चार्वस्मिन् वेश्मनि स्वयम् ।
लिखितो मिषतः कस्मान्ममर्त इव भासते ॥
 
अत्र सन्धिकृतं थोश्रोत्रकटुत्वरूपं कष्टत्वम् ।
 
विरचितशिशुभाव ईश्यमाणः स्मितमधुरं व्रजसुन्दरीगणेन ।
विदधदतिमृदुः किशोरलीलामित इत एष उदार पति कृष्णः ॥
 
अत्र 'इत इत:' इत्यादौ गुणः प्राप्तः 'पूर्वत्राऽसिद्धम्' इति सूत्रेण बाध्यते ।
 
प्रथमार्धशेषवाचकपदं द्वितीयार्धसङ्गतं यत्र ॥
अर्धान्तरैकवाचकमभिदधते तत्सदा सुधियः ॥९॥
 
स्पष्टम् ।
भूषणं भास्वरं देहे कुरु चन्द्रोऽयमुद्तः ।
तदित्थं शिक्षिता सख्या मुद्रं याताऽभिसारिका ॥
 
अत्र 'चन्द्रोऽयमुद्तस्तद्भास्वरं भूषणं देहे कुरु' इत्यन्वयः । एवं च
प्रथमार्धे द्वितीयार्धगततत्पदापेक्षा नावश्यकी। अर्थसामर्थ्यादेव तदर्थ-
बोधः । प्रकृते तु अर्थापेक्षा अधिकपदे तु न तदपेक्षेति भेदः ।
 
वाक्यसमाप्तौ सत्यंयां यदुपात्तं तत्समाप्तपुनरात्तम् ॥
 
यथा--
चित्ताम्भोनिधिमन्दरो मृगदृशां दूतोपदेशः श्रुतौ
मानाशीविषबर्हिणो मनसिजक्षोणीरुहस्याङ्कुरः ।
अन्तर्मत्तगजेन्द्रकर्षणसृणिर्वेविंशीरवः श्रीहरेः
कल्याणं वितनोतु केलिनटनारम्भे मृदङ्गध्वनिः ॥