This page has not been fully proofread.

तृतीया दृष्टिः ।
 
अत्र स्वेच्छया कृतो विश्लेषः सकृदपि दोषः ।
 

 
चलण्ड ।डामररूपोऽसौ रणेऽभूतिभीषणः ।
 

यमालोक्य हतच्छाया बभूवुरिह शत्रवः ॥
 

 
अत्र 'चलण्डामर' इत्यत्र 'भूवुरिह' इत्यत्र च सन्धिकृताऽश्लीलता ।

कार्वी शेनाऽयमर्वार्वाक् चार्वस्मिन् वेश्मनि स्वयम् ।

लिखितो मिषतः कस्मान्ममर्त इव भासते ॥
 

 
अत्र सन्धिकृतं थोत्रकटुत्वरूपं कष्टत्वम् ।
 

 
विरचित शिशुभाव ईश्यमाणः स्मितमधुरं वजसुन्दरोरीगणेन ।

विदधदतिमृदुः किशोरलीलामित इत एष उदार पति कृष्णः ॥

 
अत्र 'इत इत:' इत्यादीदौ गुणः प्राप्तः 'पूर्वत्राऽसिद्धम्' इति सूत्रेण बाध्यते ।
 

 
प्रथमार्धशेषवाचकपदं द्वितीयार्धसङ्गतं यत्र ॥

अर्धान्त रैकवाचकमभिदधते तत्सदा सुधियः ॥९॥
 

 
स्पष्टम् ।
 
२५
 

भूषणं भास्वरं देहे कुरु चन्द्रोऽयमुद्रतः ।
तांद

तदि
त्थं शिक्षिता सख्या मुद्रं याताऽभिसारिका ॥
 
यथा-

 
अत्र 'चन्द्रोऽयमुद्द्वतस्तद्भास्वरं भूषणं देहे कुरु' इत्यन्वयः । एवं च

प्रथमार्धे द्वितीयार्धगत तत्पदापेक्षा नावश्यकी। अर्थसामर्थ्यादेव तदर्थ-

बोधः । प्रकृते तु अर्थापेक्षा अधिकपदे तु न तदपेक्षेति भेदः ।
 

 
वाक्यसमाप्तौ सत्यं यदुपात्तं तत्समाप्तपुनरात्तम् ॥
 

 
यथा--
चित्ताम्भोनिधिमन्दरो मृगहशां दूतोपदेशः श्रुतौ

मानाशीविषबर्हिणो मनसिजक्षोणीरुहस्याङ्कुरः ।

अन्तर्मत्तगजेन्द्र कर्षणसृणिर्वेशीरवः श्रीहरेः
 

कल्याणं वितनोतु केलिनटनारम्भे मृदङ्गध्वनिः ॥
 
·