This page has not been fully proofread.

तिलकादिच्छन्दोविशेष: सूत्रस्य विषयः |
 
चतुर्थपादान्ताऽप्राप्तगुरुत्वलघु यथा--
 
मा सम्भावय मां गिरा मधुरया कुर्या न चित्तेत्सवं
षाताऽऽन्दोलविलोलपङ्कजदलद्रोहस्पृशा था दशा ।
आयाते मयि यश्चकार भवती कृत्यौचितीसम्भ्रमं
तेनैवाद्य ममेन्दुसुन्दरमुखि ! स्वात्मा महेन्द्रीयति ॥
 
अत्राऽसंयुक्तयकारपरस्य पादान्तनिबन्धनगुरोरपि 'ति' वर्णस्य बन्ध-
शैथिल्यकारितया न गुरुकार्यकारित्वम् । तस्मात् 'स्वात्मा कृतार्थी-
कृतः' इति 'मम' इत्यत्र 'मया' इति च वाच्यम् । छन्दोलक्षणहीनं वृत्तम-
त्यन्तवैरस्याधायकतया नोदाहृतम् ।
 
हा जगदेकमनोहर ! कान्त ! हा कुलसागरचन्द्र । नरेन्द्र ! ।
हा गुणसार । सरोरुहनेत्र ! काऽसमये गतवानसि निद्राम् ॥
 
अत्र हास्यरसव्यञ्जकस्य दोधकवृत्तस्य करुणरसप्रतिकूलत्वाद-
अव्यत्वम् ।
 
पुनः पुनः प्रगृह्यादेर्विश्लेषः सकृदिच्छया ॥
अश्लीलत्वं च कष्टत्वं सन्धेर्यत्र विसन्धि तत् ॥ ८॥
 
प्रकृतिवद्भावनिबन्धनो वारंवारमत्र संहितां न करोमीति पुनः स्वे-
च्छया सकृत्सन्धेर्विश्लेषोऽश्लीलत्वं कष्टत्वं चेति । आदिशब्दात्
सूत्रान्तरेण सन्धेर्विश्लेषो गृह्यते इत्यस्य पञ्च भेदाः ।
 
क्रमेण यथा --
 
लोचने अम्बुजे एते इमे तारे अली पुनः ।
चित्रं यदेतयोर्मध्ये केसराली न हृश्यते ॥
 
अत्र प्रगृह्णनिबन्धनः सन्धेर्विश्लेषः ।
 
बन्धकोषदनाऽम्भोजे विशन्तीव निशामुखे ।
कदलीगर्भसरशी उद्दियाय विधुघुतिः ॥