This page has not been fully proofread.

काव्यडाकिन्याः
 
तिलकादिच्छन्दोविशेष: सूत्रस्य विषयः
|
 
चतुर्थपादान्ताऽप्राप्तगुरुत्वलघु
 
यथा-
२४
 
-
 
मा सम्भावय मां गिरा मधुरया कुर्या न चित्तेोतेत्सवं

षाताऽऽन्दोलविलोलपङ्कजलद्रोहस्पृशा था दशा ।

आयाते मयि यश्चकार भवती कृत्यौचितीसम्भ्रमं
 

तेनैवाद्य ममेन्दुसुन्दरमुखि ! स्वात्मा महेन्द्रीयति ॥

 
अत्राऽसंयुक्तयकारपरस्य पादान्त निबन्धनगुरोरपि 'ति' वर्णस्य बन्ध-

शैथिल्यकारितया न गुरुकार्यकारित्वम् । तस्मात् 'स्वात्मा कृतार्थी-

कृतः' इति 'मम' इत्यत्र 'मया' इति च वाच्यम् । छन्दोलक्षणहीनं वृत्तम-

त्यन्तवैरस्याघाधायकतया नोदाहृतम् ।
 

 
हा जगदेकमनोहर ! कान्त ! हा कुलसागरचन्द्र । नरेन्द्र ! ।

हा गुणसार । सरोरुहनेत्र ! काऽसमये गतवानसि निद्राम् ॥

 
अत्र हास्यरसध्व्यञ्जकस्य दोधकवृत्तस्य करुणरसप्रतिकूलत्वाद-

अव्यत्वम् ।
 

 
पुनः पुनः प्रगृह्यादेर्विश्लेषः सकृदिच्छया ॥

अश्लीलत्वं च कष्टत्वं सन्धेर्यत्र विसन्धि तत् ॥ ८॥
 

 
प्रकृतिवद्भावनिबन्धनो वारंवारमत्र संहितां न करोमीति पुनः स्वे-

च्छया सकृत्सन्धेर्विश्लेषोऽश्लीलत्वं कष्टत्वं चेति । आदिशब्दात्

सूत्रान्तरेण सन्धेर्विश्लेषो गृह्यते इत्यस्य पत्रञ्च भेदाः ।
 

 
क्रमेण यथा -
 
-
 
लोचने अम्बुजे एते इमे तारे अली पुनः ।

चित्रं यदेतयोर्मध्ये केसराली न हृश्यते ॥

 
त्र प्रगृह्णनिबन्धनः सन्धेर्विश्लेषः ।
 

 

 
बन्धकोषदनाऽम्भोजे विशन्तीव निशामुखे ।

कदलीगर्भसरशी उद्दियाय विधुघुतिः ॥