This page has been fully proofread once and needs a second look.

वाक्यं विवक्षितार्थप्रत्यायने शिथिलमित्यस्य वाक्यदोषता ।
 
यस्मिन् दुरुच्चारमभव्यदायि लघ्वान्तिमाऽप्राप्तगुरुत्वमस्ति ||
स्वरूपहीनं विगुणं रसानामश्रव्यवृत्तं हतवृत्तकं तत् ॥७॥
 
अश्रव्यं वृत्तं यस्मिन् तद्वाक्यं हतवृत्तम् । तत्तु पञ्चविधम् । दुरुञ्चारं,
नायकाद्यकल्याणकारि, पादान्ताऽप्राप्तगुरुत्वलघु, स्वरूपहीनं, रसा-
ऽननुगुणं चेति ।
 
क्रमेणोदाहरणम् । यथा--

यदिह वपुषि स्वेदश्रेणी विसपंति सर्पति सर्वतः
स्वरतरमथ श्वासं यत्त्वं मुहुर्मुहुरुज्झसि ।
कथय कथय क्षिप्रं तस्मात्सरोरुहलोचने !
किमभवदिहाऽद्य त्वद्दृष्ट्यध्वनो विषयो हरिः ॥
 
अत्र 'अभवदिहाऽद्य त्वद्दृष्ट्यध्वनः' इति दुरुच्ञ्चारत्वादश्रव्यम् ।
 
उअह सरवरे रेहइ अरुणअरच्छिन्त्तपोम्ममिह सत्वं
मित्तविओउज्जाअसोणं णअणं व भिसिणीणं ॥ *
 
अत्र प्रथमार्धे द्वितीयतृतीयौ सगणभगणौ नायकाद्य मङ्गलसूचकौ ।
पादान्ताऽप्राप्तगुरुत्वलघु द्विधा, विषमपादचतुर्थपादान्तभेदात् ।
 
विषमपादान्ताऽप्राप्तगुरुत्वलघु यथा--

विलसति गगने नवाऽम्बुदाली वहति शनैरनिलस्तरङ्गबन्धुः ।
सहचरि ! हितहेतवे वदामि तव न मनागपि मानकाल एषः ॥
 
अत्र 'वदामि' इति मिवर्णः । न च पादान्तस्थं विकल्पेन' इति सूत्रं
समाधिरिति घाव्वाच्यम्, तस्य द्वितीयचतुर्थपादौ विषयः । यद्वा वसन्त-
-------------------------------------------------------------------------------
*पश्यथ सरोवरे राजते अरुणकरक्षिप्तपद्ममिह सर्वम् ।
मित्रवियोगोज्ज्वालशोणं नयमं ष बिव विसिनीनाम् ॥ १
इतिच्छाया ( संशोधकः )