This page has not been fully proofread.

तृतीया दृष्टिः ।
 
वाक्यं विवक्षितार्थप्रत्यायने शिथिलमित्यस्य वाक्यदोषता ।
 
यस्मिन् दुरुच्चारमभव्यदायि लध्वन्तिमाऽप्राप्तगुरुत्वमस्ति ।
स्वरूपहीनं विगुणं रसानामश्रव्यवृत्तं इतवृत्तकं तत् ॥७॥
अश्रव्यं वृत्तं यस्मिन् तद्वाक्यं हतवृत्तम् । तत्तु पञ्चविधम् । दुरुचारं,
नायकाद्यकल्याणकारि, पादान्ताऽप्राप्तगुरुत्वलघु, स्वरूपहीनं, रसा-
ऽननुगुणं चेति ।
 
कमेणोदाहरणम् । यथा-
www.dw
 
यदिह वपुषि स्वेदश्रेणी विसपंति सर्वतः
 
स्वरतरमथ श्वासं यत्वं मुहुर्मुहुरुज्झसि ।
कथय कथय क्षिप्रं तस्मात्सरोरुहलोचने !
 
किमभवविद्दाऽद्य त्वदृष्ट्यध्वनो विषयो हरिः ॥
 
२३
 
अत्र 'अभवदिहाऽद्य त्वद्रष्ट्यध्वनः' इति दुरुच्चारत्वादश्रव्यम् ।
उअद्द सरवरे रेहइ अरुणअरच्छिन्तपोम्ममिह सधं ।
मित्तविओउज्जाअसोणं णअणं व भिसिणीणं ॥ *
 
अत्र प्रथमार्थे द्वितीयतृतीयौ सगणभगणी नायकाधमङ्गलसूचकौ ।
पादान्ताऽप्राप्तगुरुत्वलघु द्विधा, विषमपादचतुर्थपादान्तभेदात् ।
 
विषमपादान्ताऽप्राप्तगुरुत्वलघु यथा-
विलसति गगने नवाऽम्बुदाली वहति शनैरनिलस्तरङ्गबन्धुः ।
सहचरि ! हितहेतवे वदामि तब न मनागपि मानकाल एषः ॥
अत्र 'वदामि' इति मिषर्णः । न च पादान्तस्थं विकल्पेन' इति सूत्रं
समाधिरिति घाव्यम्, तस्य द्वितीय चतुर्थपादौ विषयः । यद्वा वसन्त
 
● पश्यथ सरोवरे राजते अरुणकरक्षिप्तपद्ममिह सर्वम् ।
मित्रवियोगोज्ज्वालशोणं नयमं ष बिसिनीनाम् ॥ १
इतिच्छाया ( संशोधकः )