कादम्बरी /641
This page has been fully proofread once and needs a second look.
कादम्बरी ।
[ कथायाम्-
नोपलक्ष्यते । निरुद्धोद्देशं गतश्च काप्यस्माभिरसावेवान्विष्टोऽपि न दृष्टः । तत्कष्टतरमापति-
तम् । वैशम्पायनमहड्डास्मात्प्रदेशात्पदमपि गन्तुं पादावेव नोत्सहेते। मे मन्मथशरविधि-
साथ कादम्बरीदर्शनमात्रालम्बनाः क्षणमपि विलम्ब मन्तरीकर्तुमक्षमाः क्षामतया मा यासिषुः
प्राणाः । सर्वथा विनष्टोऽस्मि, न दृष्टा देवी कादम्बरी, नापि वैशम्पायन' इति । एवमुत्प्र-
न्न निश्चयोऽध्यपरिच्छेद्यस्वभावत्वात्प्रत्याशायाः कदाचिदस्य वृत्तान्तस्याभिक्षा महाश्वेतापि
भवत्येव । तत्तां तावत्पश्यामि । ततो यथायुक्तं प्रतिपत्स्य इत्यारोप्य हृदये तदाभ-
मस्यैव नातिदूरे निवेशिततुरगसैन्यः सैन्यसमायोगमपनीय सर्पनिर्मोकपरिलघुनी घनोज्झित-
ज्योत्स्नाभिरामे परिधाय वाससी तथास्थितपर्याण मेवेन्द्रायुधमारुह्य महाश्वेताश्रममुपाजगाम ।
व्यलोकयत् तदेति चेतसि चित्ते चकार निर्ममे । नियतं निश्चितमसौ वैशम्पायन: पत्रलेखायाः सकाशात्समी
पान्मदागमनं चन्द्रापीडागमनमुपलभ्य प्राप्य प्रथममेवादावेवापकान्तो गतो येन कारणेनावस्थानचिह●
मात्रकमपि निवासज्ञापकाभिज्ञानमात्रमपि कथमपि महता कष्टेन नोपलक्ष्यते न ज्ञायते । निरुद्ध देश
मिरुद्धप्रदेशं गतश्च प्राप्तश्चासानेच वैशम्पायन एवात्माभिरन्विष्टोऽपि विलोकितोsपि क्वापि न दृष्टो न दृक्पथ.
मायातः । तत्तस्माद्धेतोः कष्टतरमतिकृच्छ्रमापतितमायातम् । तदेव प्रदर्शयन्नाह – वैशम्पायनेति ।
वैशम्पायनमदृष्ट्वानवेक्ष्यात्मात्प्रदेशात्पदमपि गन्तुं पादादेव नोत्सहेते नोद्यमं कुर्वाते । मे मैम मन्मथः कंदर्प
रतस्य शरबोनैर्विक्षिप्ता नोदिताव प्राणा असवः गताः कथं नेत्याकाङ्क्षायामाह -- कादम्बरीति । केवलं
कादम्बरीदर्शन मेवालम्बनं येषां ते तथा । तद्दर्शनावलम्बनेन स्थिता इत्यर्थः । अन्तरा मध्ये क्षणमपि
निमेषमात्रमपि विलम्बं कर्तु विधातुमक्षमा असमर्थाः क्षामतया क्षीणतया मा यासिषुः प्राणाः । न विलो-
किता देवी कादम्बरी न वैशम्पायन इति हेतोः सर्वथा सर्वात्मनाहं विनष्टो गतप्राय एवास्मि । एवमुत्पन.
निश्चयोऽपि संजातनिर्णयोऽप्य परिच्छेद्य स्वभावत्वादन वेद्य प्रकृतित्वात्प्रत्याशायाः प्रतिलिप्साया अस्य पूर्वो
कवृत्तान्तस्य कदाचिदभिज्ञा वेत्री महाश्वेतापि भवत्येव । तत्तस्माद्धेतोस्तावदादौ तां महाश्वेतां पश्यामि
विलोकयामि । ततस्तदनन्तरं यथायुक्तं यथोचितं प्रतिपत्स्येऽङ्गीकारण्ये हृदये चेतसीत्यारोप्येत्याधाय तस्या
महाश्वेताया आश्रमस्य गुम्फाया नातिदूरे नातिविप्रकृष्टे निवेशितं स्थापितं तुरगसैन्यमश्वबलं येनैवंभूतः सैन्य-
समायोगं वाहिन्याः संबन्धमपनीय दूरीकृत्य सर्पस्याहेर्निर्मोकः कक्षुकः । 'फणोऽहिकोशे तु निर्ल्सयनी निर्मो-
ककचुकाः' इति हैमः । तद्वत्परिलघुन्यगुरुणी, घनेन मेघेनोज्झिता त्यक्ता या ज्योत्स्ना चन्द्रिका तद्वदभिरामे
मनोहरे वाससी वस्त्रे परिधाय परिधानं कृत्वा । अत्र वस्त्रद्वयग्रहणं देशाचारविशेषादेव मन्तव्यम् । यथा पूर्व
स्थापितं तथैव स्थितं पर्याणं पस्ययनं यस्यैवंभूतमेवेन्द्रायुधमश्वमारुत्यारोहणं कृत्वा महाश्वेताश्रममुपाज-
गामोपाययौ ।
टिप्प०-1 न कोऽध्यस्यार्थः । अत एव 'निरुद्देशम्' (नास्ति उद्देशो यन्त्र तथा तत्) इत्येव पाठः ।
2 'एवम्' अस्माभिः अन्विष्टोपि न दृष्टः, इत्येव पाठः । 3 वाक्यादौ 'मे' इति प्रयोगोप्यवैयाकरणत्वम् ।
अतः मे इति पूर्वान्वयि, मे पादौ नोत्सहेते इति । 4 भाशायाः लभावो न इदंतया निश्चेतुं शक्यः,
नानारूपा भाज्ञा भवतीत्याशयः ।
•. पाठा०-
-१ प्रथमतरम्. २ मात्रकमपि ३ निरुद्देशम् ४ कष्टम् कष्टतमम्. ५ क्षामतयामी प्राणाः; क्षोभम
यप्राणा: ६ अपहाय.