कादम्बरी /640
This page has not been fully proofread.
अच्छोदगमनम् ]
उत्तरभागः ।
,
आमन्नक मलखण्डम् उत्प्लवमानाश्यान किंजल्कदलकमलम्, आजर्जरितकहारकुवलयम्,
उद्घान्त भ्रमदलिबलयम्, उड्डीनहंस सार्थव्यक्तम्, अनवस्थानसारसारसितकरुणम्, अवशिष्ट-
दलतलनिलीयमानोच कित चक्रवाकयुगम्, उत्कम्पित कादम्ब कदम्बका श्रीयमाणोपकूलनडलम्,
उत्कलविरैतकलापिबक बलाककलापाध्यासितोपान्तपादपम्, आहतं प्रावृषान्यदिव, ईष्ट-
पूर्वमप्यदृष्टपूर्वमिव, अदत्तदृष्टिसुखम् अनुत्पादितहृदयाहादम् अनुपजनितमानसप्रीति,
तदेवाच्छोदमुपाहिंतद्विगुणदुःखमाससाद ।
,
आसाद्य चोपसर्पन्नेव सर्वाश्ववारानादिदेश । 'कदाचिदसौ वैलक्ष्यादमानालोक्यापस-
पत्येव, तञ्चतुर्ष्वपि पार्श्वेष्ववाहिता भवन्तु भवन्तः' इत्यात्मनापि तुरगगत एव खिन्नोऽध्य-
खिन्न इव बिचिम्बलतागहनानि वृक्षमूलानि शिलातलानि लेसन्मण्डपांच समन्ताद्वश्राम ।
भ्राम्यंश्च यदा न कचिदपि किंचिदवस्थानचिह्नमध्यद्राक्षीत्तदा चकार चेतसि–'नियतमसौ
,
६०७
2
दलानि पत्राणि तैर्गहनं निबिडम् । दुखगाहमित्यर्थः । आममं ब्रुडितं कमलखण्डं पद्मवनं यस्मिंस्तत्तथा ।
उत्प्लवमानान्युत्प्राबल्येनोदुदूर्ध्व तीर्यमाणान्यनाश्यानान्यशुष्काणि किंजल्कदलानि कमलानि च यस्मिंस्तत्तथा ।
'किंजल्कः केसरोऽस्त्रियाम्' इत्यमरः । आ समन्ताज्जर्जरितानि शिथिलितानि कहारकुवलयानि यस्मिंस्तत्तथा ।
तत्र कहारं सौगन्धिकम् 'सौगन्धिकं तु कहारम्' इत्यमरः । कुवलयानि प्रतीतानि । उद्धान्तं चकितं च
तन्त्रमत्कमलामावादलिवलयं भ्रमरसमूहो यस्मिंस्तत्तथा । उड्डीनैः संडीनैर्हससार्थैश्चक्राङ्ग समू हैस्त्यक्तमुज्झितम् ।
'प्रडीनोड्डीन संडी नान्येताः खगगतिक्रिया :' इत्यमरः । क्वचित् 'उड्डीनहंससार्थम्' इत्येव पाठः । तत्रोड्डीना हंसानां
सार्थाः समूहा यस्मिन्नित्यर्थः । न विद्यतेऽवस्थानं मेघसद्भावाद्येषां तेऽनवस्थाना एवंविधाः सारसा लक्ष्मणा-
स्तेषामार सितं रटितं तेन करुणं दीनम् । अवशिष्टानि यानि दलानि पत्राणि तेषां तले निलीयमानमाश्रीयमाण-
मुञ्चकितमुत्रस्तं चक्रवाकयुगलं रथाज्ञाहृयुग्मं यस्मिंस्तत्तथा । उत्कम्पितास्त्रास्ता ये कादम्बानां हंसानां कदम्बकाः
समूहास्तैराश्रीयमाण उपकूलस्य नइलः । 'नडप्रायो नडकीयोनड्डांश्च नड्डुलश्च सः इति हैमः । प्रदेशो यस्मि-
स्तत्तथा । उत्प्राबल्येन कलं मनोहरं विरुतं येषामेवंविधाः कलापिनो मयूरा: बका बकोटाः, बलाका बिस-
कण्ठिकाः, तेषां कलापाः समूहास्तैरध्यासित आश्रित उपान्तपादपः समीपवृक्षो यस्य तत्तथा प्रावृषा प्रावृद-
कालेनाहतं पीडितं तेनान्य दिवेतर दिव । दृष्टपूर्वमपि विलोकितपूर्वमप्यदृष्टपूर्व मिवानिरीक्षितपूर्वमिव । अदत्तं
दृष्टेर्ने त्रस्य सुखं सातं येन तत्तथा । अनुत्पादितोऽविहितो हृदयस्य चेतस आह्वादः प्रमोदो येन तत्तथा । अनु.
पजनिताऽकृता मानसस्य खान्तस्य प्रीतिः लेहो येन तत्तथा । उपाहितं स्थापितं द्विगुणं दुःखं येन तत्तथा ।
आससादेत्यन्वयस्तु प्रागेवोतः ।
आसाद्य च प्राप्य चोपसर्पनेवोपसरभेव सर्वान्सममानश्ववारान्सादिन इत्यादिवेशाज्ञां दत्तवान् । इतिद्योत्य
'माह - कदेति । कदाचिदसौ वैशम्पायनो वैलक्ष्याद्वीक्षापनत्वतोऽस्मानालोक्य निरीक्ष्यापसर्पत्येवापयात्येव ।
तच्चतुर्ष्वपि पार्श्वेषु भवन्तो यूयमवहिताः सावधाना भवन्तु । इत्यात्मनापि स्वेनापि तुरगगत एवाश्वाधिरूढ़
एव खिन्नोऽपि खेदं प्राप्तोऽप्यखिन्न इवाप्राप्तखेद इव विचिन्वन्विलोकयंत्रतागहनानि बल्लीगहराणि वृक्षमूलानि
पादपबुध्धानि शिलातलानि प्रसिद्धानि लसन्मण्डपांश्च प्रतिदिवसवर्धमान वीरुज्जनाश्रयांश्च समन्ताद्विष्वग्बश्राम ।
आम्बंध पर्यटंच यदा क्वचिदपि कुत्रापि स्थले किंचिदपि स्वल्पमप्यवस्थानचिह्नं निवासाभिज्ञानं नाद्राक्षीन
टिप्प० -1 उड्डीनैस्त्य तमिति विचारदारिद्र्यम् । अत एव 'उड्डीनहंसमालम्' इत्येत्र पाठः ।
2 'अनवस्थानसारसात्तकरुण कूजितम्' (अनवस्थानैः सारसैः आसं स्वीकृतं करुणकूजितं यत्र तत्) ।
पाठा०- -१ अजर्जरित २ हंसमालम्. ३ आश्रितमान. ४ मुक्तकलबिरुत; उत्कतलविक. ५ कलाप. ६ दृष्टमप्य-
पूर्वमिव, अन्यदिवादृष्टपूर्वमिव ७ इव. ८ सर्वान्. ९ लता.