2024-01-07 13:45:07 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दिवसैश्चोल्लिख्यमानमिवानवरत [^१]वाहिना [^२]श्रुपूरप्रवाहे- [^३]णावभज्यमानमिव । [^४]सततैर्निश्वासप्रभञ्जनैरुत्खन्यमान- मिव । संततैः सान्तर्मदनदुःखोत्कलिकासहस्रैरजस्रपातिभिरित- स्ततो जर्जरीक्रियमाणमिव । अपि च सहस्रैर्मकरध्वजशरासारै- र्वपुषैव च सह क्षीयमाणमिव स्वल्पा [^५]वशेषं संकल्पलिखितेन निर्विशेषवृत्तिना कादम्बरीशरीरेणे [^६]व सह कण्ठलग्नं कथंकथ- मपि जीवितं धारयन्, [^७]धाराधरक्लिन्नतीरतरुतलम्, आप्लावि-
तो [^८]पान्तहरितशाद्वलम्, [^९]अशेषतटलतावनम्, अनवरत- रोधो [^१०]जलप्रवेशकलुषितप्रान्तम्, अवशीर्यमाणोद्दण्ड- [^११]कुमुददलगहनम्,
 
[ टि ]-- दिवसैदिनैश्चो [^1]ल्लिख्यमान मिवोत्कीर्यमाणमिव, अनंवरतवाहिना निरन्तरप्रवर्तिनाथुश्रुपूरप्रवाहेण नेत्रजलप्लवर-
येणावभज्यमानमिव मर्थमान मित्र, मर्द्यमानमिव, सततैर्निरन्तरैः सविस्तृतैर्वा निश्वासप्रभञ्जनैः घ्राणवायुभिरुत्खन्यमान मियो-
मिवोत्पाव्यमान मित्र, खट्यमानमिव, सततैरत एवाजस्रपातिभिर्निरन्तरपतनशीलैः सान्तर्मंदनस्य कंदर्पस्य यद्दुःखमसातं तस्योत्कलि-
का सह सहस्रैर्हृल्लेखासहस्रै-
रितस्ततः प्रेरणेन जर्जरी क्रियमाणमिव शिथिली क्रियमाणमिव । अपि च सहस्रैः सहस्र-
संख्या कैर्म करध्वजस्य मदनस्य शरासारै- र्बाणवेगवृष्टिभिर्वपुषा शरीरेणैव च सह क्षीयमाणमिव क्षीणतां प्राप्य
"
-
प्य
माणमिव । स्वल्पं स्तोकं यदवशेषमुर्वरितं संकल्प लिखितं कल्पनाकल्पितं तेन निर्विशेषवृत्तिना स्वरूपमात्रव.
र्तिना कादम्बरीशरीरेणेव सह कण्ठलमंग्नं निगरणासक्तं कथंकथमपि महता कष्टेन जीवितं प्राणितं धारयन्त्रि-
बिभ्रन् (तू) । तदेवाच्छोदं सर आससाद प्राप्तवान्। इतोऽच्छोदं विशेषयन्नाह - धारेति । धारा- धरेण क्लिनमा
र्द्रं तीरस्य तटस्य तरूणां वृक्षाणां तला बोधोभागो यस्मिंस्त तथा । आप्लावितो जलेन धौत उपान्तः समीपवर्ती हरितो
नील: शाद्वलप्रदेशो यस्य तत्तथा । 'शाद्वल: शादहरिते' इत्यमरः । अं[^2]अशेषे समग्रे तटे तीरे लतावनं वही-
ल्लीकाननं यस्मिंस्तथास। अनवतं निरन्तरं रोधस्तटं तस्य जलप्रवेशेन पानीयागमेन कलु- षितो मलिनीकृतः
प्रान्तः प्रदेशो यस्य तथा । अवशीर्यमाणानि
भ्र
श्यमानानि यान्युद्दण्डान्युन्नालानि कुमुदानि कैरवाणि तेषां
 
टिप्प० - [^1]F. 'दिवसै' रित्यारभ्य 'जीवितं धारयन्' एतस्त्पर्यन्तो ग्रंथः पर्या- यान्वेषणमात्रपाटवेन टीका-
कारेण अनुचितान्वयं कृत्वा सर्वोपि
भ्र
ष्टीकृतः । 'दिवसैः' इति 'तदेव अच्छोदमाससाद' इत्यत्रान्वेति ।
कतिपयैर्दिवसै चन्द्रा पीडः । अच्छोदं प्रापेति स्पष्टोऽर्थः । उल्लिख्यमानमिवानवरस- मानमिवानवरतवाहिनाऽश्रुपूरेण, (श्रु-
प्रवाहेण उल्लिख्यमानमिव उत्कीर्यमाणमिव, इति तदर्थः ) निश्वासप्रभञ्जनैः अपभज्यमानमिव, इत्यादि-
रमे
रग्रेऽप्यन्वयः सुस्पष्ट एव । किन्तु दिवसैः उल्लिख्यमानमिव, मथुअश्रुप्रवाहेणापभज्यमानमिव, इत्यादिरू-
घे
पेणान्त पर्यन्तमन्धेयं व्यत्य- स्य सर्वामपि कादम्बरीरीं गरलीचकार । शरैर्जर्जरीकरणं पामरेणापि परिक्षाज्ञातम्,
किन्तु टीकाकार शिरोमणिस्तस्त्परिवर्त्य 'उत्कलिकासह त्- स्रैर्जर्जरी क्रियमाणमिव' इत्यादि व्याख्याति । अजख-
स्रपातिभिरिति विशेषणमत्र सुन्दरतयाऽन्वेति, उत मकरध्वजशरासारैरित्यत्र इति तु सहृदयैरेव विवेक-
ध्
क्तव्यम् । पाठकानां सौकर्याय शुद्धं पाठमुल्लि- खामि, शब्दानामर्थष्टीकातोऽपि ज्ञातुं शक्यः । "दिवसैश्रोचोल्लि
रूयमा
ख्यमा- नमियाsनवरतवाहिनाऽश्रुपूरेण, अवभज्यमानमिव संततैर्निश्वास- प्रभञ्जनैः, उत्खन्यमानमिव मदन-
छुः
दु:खोस्त्कलिकासहलैः, स्रै:,अजनपाति- भिरितस्ततो जर्जरीक्रियमाणमिव मकरध्वजशरासारैः, वपुषैव सह क्षीय-
माणमिन ख
माणमिव स्वल्पावशेष संकल्पलिखितेन निर्विशेषवृत्तिना काद- म्बरीशरीरेण सह कण्ठलग्नं कथंकथमपि
आवे
जीवितं धारन्', [ वपु-र्यथा क्षीणं जातं तथा जीवितमपि क्षीणम् । स्वल्पः अवशेषो यस्य तादृशेन
तथा संकल्पेन मनः कल्पनया लिखितेन, निर्विशेषवृत्तिना स्वशरीरादभिन्नेन कादम्बरीशरीरेण सह, का
दम्बरीशरीरं यथा भावनावशात्कण्ठालिङ्गनसक्तं तथा खेदातिशयात् जीवितमपि कण्ठागतमित्यर्थः । ]
[^2 भा]F. आसेव्यतटलतावनम् । इत्येव पाठः ।
 
Carto
 
पाठा० -

[^
]G. प्रवाहिता; वाहिता रथवाहिना .
[^
]G. धारा .
[^
]G. अपभज्यमानम् ; विभज्यमानम् .
[^
]G. संततै:.
[^
]G. शेष-
संकल्प.
[^
]G. इव.
[^
]G. धाराधरजल, .
[^
]G. उपान्तं .
[^
]G. आसेग्व्य; अशेष.
[^
]G. प्रवेशं.
[^
११]G. कुसुमकुमुद..