This page has not been fully proofread.

६०६
 
कादम्बरी ।
 
[ कथायाम्-
दिवसैचो लिख्य मानमिवानवरतवाहिना श्रुपूरप्रवाहेणावभज्यमानमिव । सततैर्निश्वासप्र-
भजनैरुत्खन्यमानमिव । संततैः सान्तर्मदनदुःखोत्कलिकासह सैरजस्रपातिभिरितस्ततो
जर्जरीक्रियमाणमिव । अपि च सहस्रैर्मकरध्वजशरासारैर्वपुषैव च सह क्षीयमाणमिव
स्वल्पावॅशेषं संकल्पलिखितेन निर्विशेषवृत्तिना कादम्बरीशरीरेणेव सह कण्ठलमं कथंकथमपि
जीवितं धारयन, धाराधरक्किन्नतीरतरुतलम् आप्लावितोपान्तहरितशाद्वलम्, अंशेषतट-
लत्तावनम्, अनवरतरोधोजलंप्रवेशकलुषितप्रान्तम्, अवशीर्यमाणोद्दण्डकुमुद दलगहनम्,
 
दिवसैदिने श्रोल्लिख्यमान मिवोत्कीर्यमाणमिव, अनंवरतवाहिना निरन्तरप्रवर्तिनाथुपूरप्रवाहेण नेत्रजललवर-
येणावभज्यमानमिव मर्थमान मित्र, सततैर्निरन्तरैः सविस्तृतैर्वा निश्वासप्रभजनैः घ्राणवायुभिरुत्खन्यमान मियो-
त्पाव्यमान मित्र, खततैरत एवाजसपातिभिर्निरन्तरपतनशीलैः सान्तर्मंदनस्य कंदर्पस्य यद्दुःखमसातं तस्योत्कलि-
का सह सहलेखासहस्रै
रितस्ततः प्रेरणेन जर्जरी क्रियमाणमिव शिथिली क्रियमाणमिव । अपि च सहस्रैः सहस्र-
संख्या कैर्म करध्वजस्य मदनस्य शरासारैर्बाणवेगवृष्टिभिर्वपुषा शरीरेणैव च सह क्षीयमाणमिव क्षीणतां प्राप्य
"माणमिव । स्वल्पं स्तोकं यदवशेषमुर्वरितं संकल्प लिखितं कल्पनाकल्पितं तेन निर्विशेषवृत्तिना स्वरूपमात्रव.
तिना कादम्बरीशरीरेणेव सह कण्ठलमं निगरणासक्तं कथंकथमपि महता कष्टेन जीवितं प्राणितं धारयन्त्रि-
अन् (तू) । तदेवाच्छोदं सर आससाद प्राप्तवान्। इतोऽच्छोदं विशेषयनाह - धारेति । धाराधरेण क्लिनमाई
तीरस्य तटस्य तरूणां वृक्षाणां तला बोभागो यस्मिंस्त तथा । आलावितो जलेन धौत उपान्तः समीपवर्ती हरितो
नील: शादलप्रदेशो यस्य तत्तथा । 'शाद्वल: शादहरिते' इत्यमरः । अंशेषे समग्रे तटे तीरे लतावनं वही-
काननं यस्मिंस्तथ अनवदतं निरन्तरं रोधस्तटं तस्य जलप्रवेशेन पानीयागमेन कलुषितो मलिनीकृतः
प्रान्तः प्रदेशो यस्य तथा । अवशीर्यमाणानि अश्यमानानि यान्युद्दण्डान्युन्नालानि कुमुदानि कैरवाणि तेषां
 
टिप्प० - 1 'दिवसै' रित्यारभ्य 'जीवितं धारयन्' एतस्पर्यन्तो ग्रंथः पर्यायान्वेषणमात्रपाटवेन टीका-
कारेण अनुचितान्वयं कृत्वा सर्वोपि अष्टीकृतः । 'दिवसैः' इति 'तदेव अच्छोदमाससाद' इत्यत्रान्वेति ।
कतिपयैर्दिवसै चन्द्रा पीडः । अच्छोदं प्रापेति स्पष्टोऽर्थः । उल्लिख्यमानमिवानवरसवाहिनाऽश्रुपूरेण, (पश्रु-
प्रवाहेण उल्लिख्यमानमिव उरकीर्यमाणमिव, इति तदर्थः ) निश्वासप्रभअनैः अपभज्यमानमिव, इत्यादि-
रमेऽप्यन्वयः सुस्पष्ट एव । किन्तु दिवसैः उल्लिख्यमानमिव, मथुप्रवाहेणापभज्यमानमिव, इत्यादिरू-
घेणान्त पर्यन्तमन्धेयं व्यत्यस्य सर्वामपि कादम्बरी गरलीचकार । शरैर्जर्जरीकरणं पामरेणापि परिक्षातम्,
किन्तु टीकाकार शिरोमणिस्तस्परिवर्त्य 'उत्कलिकासह त्रैर्जर्जरी क्रियमाणमिव' इत्यादि व्याख्याति । अजख-
पातिभिरिति विशेषणमत्र सुन्दरतयाऽन्वेति, उत मकरध्वजशरासारैरित्यत्र इति तु सहृदयैरेव विवेक-
ध्यम् । पाठकानां सौकर्याय शुद्धं पाठमुलिखामि, शब्दानामर्थष्टीकातोऽपि ज्ञातुं शक्यः । "दिवसैश्रोलि
रूयमानमियाsनवरतवाहिनाऽश्रुपूरेण, अवभज्यमानमिव संततैर्निश्वासप्रभअनैः, उत्खन्यमानमिव मदन-
छुःखोस्कलिकासहलैः, अजनपातिभिरितस्ततो जर्जरीक्रियमाणमिव मकरध्वजशरासारैः, वपुषैव सह क्षीय-
माणमिन खल्पावशेष संकल्पलिखितेन निर्विशेषवृत्तिना कादम्बरीशरीरेण सह कण्ठलनं कथंकथमपि
आवे धारमन्', [ वपुर्यथा क्षीणं जातं तथा जीवितमपि क्षीणम् । स्वल्पः अवशेषो यस्य तादृशेन
तथा संकल्पेन मनः कल्पनया लिखितेन, निर्विशेषवृत्तिना स्वशरीरादभिनेन कादम्बरीशरीरेण सह, का
दम्बरीशरीरं यथा भावनावशात्कण्ठालिङ्गनसक्तं तथा खेदातिशयात जीवितमपि कण्ठागतमित्यर्थः । ]
2 भासेव्यतटलतावनम् । इत्येव पाठः ।
 
Carto
 
पाठा० - १ प्रवाहिता; वाहिता रथवाहिना २ धारा ३ अपभज्यमानम् ; विभज्यमानम् ४ संततै: • ५ शेष-
संकल्प ० ६ इव. ७ धाराधरजल, ८ उपान्तं ९ आसेग्य; अशेष. १० प्रवेशं. ११ कुसुमकुमुद..