This page has not been fully proofread.

सन्ध्यावर्णनम् ]
 
पूर्वभागः ।
 
४२१
 
दितकुचा, चकितपरिवर्तन ट्यविलीलता, समस्त चिकुरकलापसंकलनाकुलकैरतला, कटाक्ष-
क्षेपघवलीकृतकर्णोत्पलं विलक्ष्यमाणस्मितसुधाधूलिधूसरितकपोलं साचीकृत्य वदनमनेकर
-
भनिभरं विलोकयन्ती, तावदवतस्थे यावदुपसंहतालोको लोहितो दिवसो बभूव ।
 
अथ हृदयस्थितकमलिनीरागेणेव रज्यमाने राजीवजीवितेश्वरे सकललोकचक्रवालचक्रव-
तिनि भगवति पूष्णेि, क्रमेण च दिनपरिलम्बनरोषरक्ताभिः कामिनीदृष्टिभिरिव संक्रामित-
शोणिन्नि व्योम्नि, संहृतशोचिषि जाते जरठहारीतहरितवाजिनि, रविविरंहमीलितसरोजसं-
हतिषु हरितायमानेषु कैमलवनेषु, श्वेतायमानेषु कुमुदखण्डेषु, लोहितायमानेषु दिड्युखेषु,
 
0
 
ताभ्यामूरुभ्यां यथाकथंचिद्विवृतमपि शिथिलं दुकूलं यस्याः सां । क्षितितले दोलायमानोंऽशुकस्योत्तरीयस्यैक-
देशस्तेनाच्छादितौ कुचौ यया सा । चकितं ससंभ्रमं यत्परिवर्तनं तेन त्रुट्यन्ती त्रिवलीलता यस्याः सा ।
समस्ताः समग्रा ये चिकुराः कुन्तलास्तेषां कलापः समूहस्तस्य संकलनं स्वकीयस्थले स्थापनं तेनाकुलं व्याक्षिप्तं
करतलं यस्याः सा । किं कुर्वती । वदनं मुखं साचीकृत्य वक्रीकृत्यानेके रसास्तेषां भङ्गी रचनाविशेषस्तेन
भङ्गुरं वक्रं यथा स्यात्तथा विलोकयन्ती । अथ वदनं विशेषयन्नाह – कटाक्षेति । कटाक्षाणां क्षेपस्तेन धवली-
कृतं कर्णोत्पलं यस्मिन् । विलक्ष्यमाणं यत्स्मितं तदेव सुधा तस्या धूलिस्तया धूसरितौ कपोलौ यस्मिन् ।
तावदवतस्थे यावदुपसंहत एकीभूत आलोको यस्मिन्नेवंविधो लोहितो रक्तो दिवसो बभूव । एतेन संध्या-
समयो जात इति ज्ञापितम् ।
 
अथ प्रदोषसमयं वर्णयन्नाह - अथेति । जातायामदर्शनक्षमायां वेलायां कादम्बरी सौधशिखराक्क्रीडाप-
बैतकनितम्बाच्च चन्द्रापीडोऽवततारेत्यन्वयः । कस्मिन्सति । रागेणानुरज्यमाने सति रक्ततां प्राप्यमाणे सति ।
रक्तत्वसाम्यादाह — हृदयस्थितो यः कमलिनीरागस्तेनेव राजीवानां कमलानां जीवितं तस्येश्वरः स्वामी तस्मि-
न्सकलः समग्रो यो लोकस्तस्य चक्रवालं मण्डलं तस्य चक्रवर्तिनि सार्वभौमे भगवति माहात्म्यवति । जरठः परि-
णत एवंविधो यो हारीतो मृदङ्कुरस्तद्वद्धरिता नीला वाजिनो यस्य स तस्मिन् । पुनः कीदृशे । संहृतशो-
चिष्यात्तदीधितौ एवंविधे पूँणि सूर्ये जाते सति । तथा क्रमेण च परिपाट्या दिनस्य सूर्यस्य परिलम्बनमस्तसम-
यस्तेन रोषो नायको दत्तसंकेतोऽद्यापि नागत इत्येवंरूपस्तेन रक्ताभिः कामिनीदृष्टिभिरिव संक्रामितः शोणिमा
रक्तिमा यस्मिन्नेवँविधे व्योम्याकाशे सति । पुनः केषु । रविरिति । रविः सूर्यस्तस्य विरहो वियोगस्तेन
मीलिताः संकुचिता याः सरोजसंहतयः कमलराजयस्तासु । पुनः केषु । कमलवनेषु नलिनखण्डेषु हरितायमा-
नेषु नीलायमानेषु सत्सु । तथा कुमुदखण्डेषु कैरववनेषु श्वेतायमानेषु गौरपदाचरमाणेषु । प्रफुल्लितत्वादिति
भावः । तथा लोहितायमानेषु रक्तायमानेषु दिङ्मुखेषु सत्सु । तथा नीलायमाने हरितायमाने शर्वरीमुखे प्रदोषे ।
 
टिप्प० -1 विभ्रमवशादुत्तरीयांशुकः स्वस्थानादपसल भूमौ लम्बित: पुनश्च सविलासं स्वस्थानं
स्थापित स्तनाच्छादितकुचा । 2 'विलक्षस्मित' इत्येव पाठः । सलजं यत्स्मितमित्यर्थः । 3 हन्त कियद्वा
जर्जरा सेयं टीकाकन्था प्रथ्यताम् । दैवहतक: सोयं 'जरठहारीत०' पर्यन्तमेक विशेषणीचकार । किन्तु
राजीवजीवितेश्वरे सकल.. . चक्रवर्तिनि भगवति पूष्णि (सूर्ये) कमलिनीरागेणेव रज्यमाने सति ( स्वा-
भाविके रक्तवर्णे कमलिन्यनुरागस्योत्प्रेक्षा ) । इति पृथगन्वयः । संक्रामितशोणिन्नि व्योम्नि इति पृथक् ।
जरठहारीतहरितवाजिनि ( सूर्ये ) संहृतशोचिषि संकोचितप्रकाशे जाते सति, इति पृथक् । 4 हन्त !
रविविरहेण मीलिताः सरोजसंहतयो येषु ईदृशेषु कमलवनेषु हरितायमानेषु सत्सु इत्यर्थः ।
 
......
 
पाठा०-१ असंत्रस्त. २ कारकमला. ३ कर्णोत्पल ४ विलक्ष्यमाणस्मितधूलिधूसरकपोलम्; विलक्षस्मितसुधाधू-
लिधूसरितैककपोला; विलक्ष्यस्मितसुधाधूलिधूसरितकपोलम्, विलक्ष्य चास्मितसुधाधूलिधूसरित कपोलम् ५ साचीकृत.
६ भ्रूभङ्गि. ७ उपसंहृत. ८ सकलचक्रवाकचक्रवालचित्तवर्तिनि ९ उष्णदीधितौ १० जनित. ११ कमलवनेषु
निजसुहृदमृतमूर्तिसमालोकनाशया हर्षप्रकर्षसंदर्शितस्मितेष्विवोन्मुखेषु धवलायमानेषु कुमुदखण्डेषु,