This page has not been fully proofread.

४२०
 
कादम्बरी ।
 
[ कथायाम्-

 
चित्ररथसुता पुनरपि तदेव सौषशिखरमारोह । तत्रस्था च पुनस्तथैव विविधविलास-
तरैङ्गितैर्विकारिविलोकितैर्जहारास्य मनः । तथाहि मुहुर्मुहुर्नितम्बबिम्बन्यस्तवामहस्त पल्लवा
प्रावृतांशुकानुसार प्रसारितदक्षिणकरा निश्चलतारका लिखितेव, मुहुजृम्भिकारम्भदत्तोत्तानकर-
तलतया तेंद्गोत्रस्खलनभिया निरुद्धवदनेव, मुहुरंशुक पल्लवताडित निःश्वासा मोदलुब्धमधुकर-
मुखरतया प्रस्तुताहानेव, मुहुरनिलगलितांशुकसंभ्रमद्विगुणीकृतभुजयुगलप्रावृतपयोधरतया
दत्तालिङ्गनसंज्ञेव, मुहुः केशपाशाकृष्टकुसुमपूरिताञ्जलिसमाधाणलीलया कृतनमस्कारेव, मुहु-
रुभयतर्जनीभ्रमितमुक्ताप्रार्लेम्बतया निवेदितहृदयोत्कलिकोद्गमेव, मुहुरुपहारकुसुमस्खलनवि-
धुत करतलतया कथितकुसुमायुधशरप्रहारवेदनेव, मुहुर्गलितरशनानिगडपतितचरणतया संय-
म्यार्पितेव मन्मथेन, मुंहुश्चलितोरुबिघृतशिथिलदुकूला, क्षितितल दोलायमानांशुकैकदेशाच्छा-
यया सा । तमालिका एव द्वितीया यस्याः सा च । तत्रस्था च सौधशिखरगता च पुनस्तथैव पूर्वोक्तरीत्यैव विविधा
अनेकप्रकारा ये विलासा भ्रूसमुद्भवास्तैस्तरङ्गितैर्विका रिविलोकितैरस्य चन्द्रापीडस्य मनो जहार हृतवती । तदेव
दर्शयति — तथाहीति । मुहुर्मुहुर्वारंवारं नितम्बबिम्बे आरोहबिम्बे न्यस्तः स्थापितो वामहस्तपल्लवो यया
सा । प्रावृतं परिधानीकृतं यदंशुकं तदनुसारेण प्रसारितो दक्षिणकरो यया सा । निश्चलेति । निश्चला स्थिरा
तारका कनीनिका यस्याः सा । अत एव लिखितेव चित्रितेव । मुहुरिति । जृम्भिकारम्भे जृम्भायाः प्रारम्भे
दत्तं यदुत्तानं करतलं तस्य भावस्तत्ता तया । तस्य चन्द्रापीडस्य गोत्रमभिधानं तस्य स्खलनं तस्माद्या भी:
भीतिस्तया निरुँद्धवदनेव । मुहुरिति । अंशुकपल्लवेन ताडितो यो निःश्वासामोदस्तत्र लुब्धा ये मधुकरा भ्रम-
रास्तैर्मुखरो वाचालस्तस्य भावस्तत्ता तथा प्रस्तुतं प्रारब्धमाह्वानं यया सैवंविधेव । मुहुरिति । अनिलेन गलि-
तानि यान्यंशुकान्युत्तरीयाणि तेषां संभ्रमो विलासस्तेन द्विगुणीकृतं यद्भुजयुगलं तदेव प्रावृतमुत्तरीयं ययोः
पयोधरयोस्तयोर्भावस्तत्ता तया दत्तालिङ्गनसंज्ञा संकेतो यया सैवंविधेव । मुहुरिति । केशपाशादाकृष्टानि
यानि कुसुमानि तेन पूरितो योऽञ्जलिस्तस्य समाघ्राणलीलया कृत्वा कृतनमस्कारेवं विहितप्रणामेव । पुनः
करयोरलीकप्रदेशाभिमुखीकरणेन तदुत्प्रेक्षा । मुहुरिति । उभयतर्जनीभ्रमितो यो मुक्ताप्रालम्बो मुक्तालता
तस्य भावस्तत्ता तया निवेदितो ज्ञापितो हृदयस्योत्कलिका हल्लेखा तस्या उद्गमः प्रादुर्भावो यया सैवंविधेव ।
यथा हारो मया भ्राम्यते तथोत्कलिकया मञ्चित्तमिति भावः । मुहुरिति । उपहारस्योपचारस्य
यानि कुसुमानि तेभ्यः स्खलनेन विधुतं कम्पितं यत्करतलं तस्य भावस्तत्ता तया कथिता कुसुमायुधो
मदनस्तस्य शरप्रहारवेदना पीडा यया सैवंभूतेव । मुहुरिति । गलिता सस्ता या रशना कटिमेखला सैव
निगडोऽन्दुकस्तत्र पतितौ यौ चरणौ तयोर्भावस्तत्ता तया संयम्य बद्ध्वा मन्मथेनार्पितेव । मुहुरिति । चलि-
टिप्प० - 1 वायुनाऽपसारितो योंऽशुकस्तदनुसारेण तत्सजीकरणव्याजेनेत्यर्थः । 2 मदनजागरणेन
या जृम्भा जाता तत्र व्यात्तमुखस्य पिधानार्थं यो हस्त आवरणीकृतः स मन्ये प्रेमवशाञ्चन्द्रापीडस्य नाम -
निःसरणभयेन मुखस्यावरणीकृत इत्याशयः । 3 दृश्यतां बुद्धिष्टीकयितुः । अंशुकपल्लवेन ताडिताः निःश्वा-
'ससौरभलुब्धा ये मधुकररास्तैर्मुखरतया शब्दायमानतया, इत्यर्थो वाच्यः । 4 अंशुकानां किमु भारो
धृतस्तया ! अस्तु. अनिलेन गलिते अंशुके संभ्रमवशाद् द्विगुणीकृतेन भुजयुगलेन एकस्योत्तरं द्वितीयेन
भुजेन प्रावृतौ पयोधरौ यया अर्थाद् भुजद्वयवेष्टितकुच्चा । 5 अञ्जल्युपरि भाघ्राणाय नमिते शिरसि नम-
स्कारचेष्टा जातेत्यांशयः । 6 उत्कलिका उत्कण्ठा ।
 
पाठा०—१ तरङ्गिभिः २ विलोकितैः; बिकारि मिविलोकितैः ३ मुहुः ४ असमावृत ५ गोत्रस्खलनभयनिरुद्ध-
बदनेव. ६ संभ्रमद्विगुणितभुजलतावृतपयोधरतया; संवरणसंभ्रमद्विगुणीकृतभुजयुगलप्रावृतपयोधरतया ७ प्रलम्ब.
८ करतया ९ निबिड १० नियमित ११ मुहुर्मुहुर्निचलित.
 
,