This page has not been fully proofread.

कादम्बरी प्रहितोपहार समर्पणम् ]
 
पूर्वभागः ।
 
४१९
 
क्ष्यति । अत एव महाश्वेता तैरलिकामपीमं हारमादाय त्वत्सकाशं प्रेषितवती । तयापि
कुमारस्य संदिष्टमेष – 'न खलु महाभागेन मनसापि कार्य: कादम्बर्याः प्रथमप्रणयप्रसर -
भङ्गः' इत्युक्त्वा च ताराचऋमिव चामीकराचलस्य तटे तं तस्य वक्षःस्थले बबन्ध ।
 
G
 
त्मनः,
 
चन्द्रापीडस्तु विस्मयमानः प्रत्यवादीत् - 'मदलेखे, किमुच्यते । निपुणासि जानासि
प्राहयितुम् । उत्तरावकाशमपहरन्त्या कृतं वचसि कौशलम् । अयि मुग्धे, के वयमा-
के वा वयं ग्रहणाग्रहणस्य वा । आगता खल्वियमस्तं कथा । सौजन्यशालिनीभि-
र्भवतीभिरुपकरणीकृतोऽयं जनो यथेष्टमिष्टेध्वनिष्टेषु वा व्यापारेषु विनियुज्यताम् । अति-
दक्षिणायाः खलु देव्याः कादम्बर्या निर्देर्दाक्षिण्या गुणा न कंचिन्न दासीकुर्वन्ती'त्युक्त्वा
च कादम्बरीसंबद्धाभिरेव कथाभि: सुचिरं स्थित्वा विसर्जयांबभूव मदलेखाम् । अनति-
दूरं गतायां च तस्यां क्रीडापर्वतगत मुदयगिरिगतमिव चन्द्रमसं चन्दनदुकूलहारधवलं
चन्द्रापीडं द्रष्टुं समुत्सारितवेत्रच्छत्रचामरचिह्ना निषिद्धाशेष परिजना तमालिकाद्वितीया-
B
 
निजात्मानमुत्स्रक्ष्यति त्यक्ष्यति । अत एवातो हेतोर्महाश्वेतेमं हारमादाय गृहीत्वा त्वत्सकाश भवत्समीपं तर-
लिकां प्रेषितवती प्रहितवती । तयापि महाश्वेतयापि कुमारस्य संदिष्टं कथितमेव । महाभागेन सत्पुरुषेण त्वया
कादम्बर्याः प्रथमप्रणयप्रसरभङ्गो मनसापि न कार्यो न विधेयः । कायवाग्भ्यां तु सर्वथा निषेध एव सूचितः ।
इत्युक्त्वेत्यभिधाय चामीकराचलस्य मेरोस्तटे ताराचऋमिव नक्षत्रसमूहमिव तं हारं तस्य वक्षस्थले बबन्ध ।
चन्द्रापीडस्तु विस्मयमानो विस्मयं कुर्वाणः प्रत्यवादीत्प्रत्यवोचत् । हे मदलेखे, त्वया किमुच्यते । त्वं निपुणासि
पण्डितासि । अत एव ग्राहयितुं स्वीकारयितुं जानासि । उत्तरस्य प्रतिवचसोऽवकाशं प्रवेशयोग्यतामपहरन्त्या
दूरीकुर्वन्त्या वचसि वाग्व्यापारे कौशलं पाण्डित्यं कृतम् । अयीति कोमलामन्त्रणे । हे मुग्धे, आत्मनो भवद -
पेक्षया के वयम् । युष्माकं देवयोनित्वादिति भावः । अथ च के वा वयं ग्रहणाग्रहणस्य वा । आगता
खलु निश्चितम् इयमस्तं कथा । सौजन्यशालिनीभिः सुजनताशोभिनीभिर्भवतीभिरुपकरणीकृतोऽयं जो
यथेष्टमिष्टेष्वनिष्टेषु वा व्यापारेषु विनियुज्यतां प्रेर्यताम् । खलु निश्चितम् । अतिदक्षिणाया अत्युदारायाः ।
'दक्षिणे सरलोदारौ' इति कोशः । कादम्बर्या निर्दाक्षिण्याः सर्वत्र भ्रमणशीला गुणाः कंचित्पुरुषं न दासी
कुर्वन्ति । अपि तु सर्वानेव । इत्युक्त्वा चेत्यभिधाय च कादम्बरीसंबद्धाभिरेव कथाभिः सुचिरं स्थित्वा तां
मदलेखां विसर्जयांबभूव गृहे गमनायानुज्ञापितवान् । तदनन्तरं तस्यां मदलेखायामनतिदूरं गतायां नातिदूरं
प्राप्तायां चित्ररथसुता कादम्बरी पुनरपि द्वितीयवारमपि तदेव सौधशिखरमारुरोहारूढा । अत्र सौधशिखरं
विशेषयन्नाह - क्रीडेति । क्रीडार्थं यः पर्वतः शैलस्तत्र गतम् । कमिव् । उदयगिरिरुदयाचलस्तत्र गतमिव
चन्द्रमसम् । चन्दनं मलयजम्, दुकूलं क्षौमम्, हारः शेषाभिधानः एतैर्धवलं शुभ्रं चन्द्रापीडं द्रष्टुं वीक्षितुं
समुत्सारितानि दूरीकृतानि वेत्रच्छत्रचामरचिह्नानि यया सा । निषिद्धो वर्जितोऽशेषः समग्रः परिजनः परिच्छदो
 
टिप्प० - 1 आत्मनः के वयम् ? वयमात्मनोपि न प्रभवः, किमुतान्यस्येत्यर्थः । 2 इमं पाठत्वेनोल्लि
ए: ? अत एव -'
-'निर्दाक्षिण्य
खैष्टीकाकार एव निर्दाक्षिण्यः । कादम्बरीगुणान् निर्दाक्षिण्यान्वदेद् ग्रन्थकारः
मपि' इति पाठः । कादम्बर्या गुणा निर्दाक्षिण्यम् ( अनुदारमपि, मादृशम् ) अपि कं न दासीकुर्वन्ति,
अपि तु सर्वमेवेत्यर्थः ।
 
पाठा० -१ महाश्वेतया २ तरलिका. ३ अनुप्रेषिता. ४ उच्यते. ५ कथयितुम् ६ ग्रहणस्याग्रहणस्य
७ गता. ८ अनिविष्टेषु. ९ निर्दाक्षिण्यमपि १० अनतिचिरम् ११ पर्वतक. १२ उदयगताम्. १३ उत्सारित,
१४ परिजनानुगमना.