This page has been fully proofread once and needs a second look.

eg 1 sahasā vidadhīta na kriyām
avivekaḥ paramāpadāṃ padam.
vriṇute hi vimṛśya-kāriṇaṃ
guṇa-labdhāḥ svayameva sampadaḥ.

सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् ।
वृणुते हि विमृश्यकारिणं गुणलव्धाः स्वयमेव सम्पदः ॥

Do not do anything all on a sudden,
Since the fool are subjected to heavy burden;
Fortune herself welcomes only the considerate
If attracted by his virtues favourite.
 
Here the general statement (given in the first sentence) has
been supported by a particular statement (given in the second sen-
tence). The corroboration between the two statements given in two
different sentences has been based on similitude. Expressions are
identical and mutually based on the relation of general and partic-
ular (sāmānya-viśeṣa-bhāva).
 
Definitions
 
उपन्यासस्तथान्यः स्यात्प्रस्तुताद्यत् क्वचिद्भवेत्
ज्ञेयः सोऽर्थान्तरन्यासः पूर्वार्थानुगतो यदि ॥ वि. १४.८

ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किंचन ।
तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ॥ का. १६३

उपन्यसनमन्यस्य यदर्थस्योदितादृते ।
ज्ञेयः सोऽर्थान्तरन्यासः पूर्वथानुगतो यथा ॥ भा. का. २.७१

समर्थकस्य पूर्वं यद्वचोऽन्यस्य च पृष्ठतः ।
विपर्ययेण वा यत्स्याद्धि शब्दोक्त्यान्यथापि वा ॥

ज्ञेयः सोऽर्थान्तरन्यासः । अ. सं. २.४
उक्तसिद्ध्यैवस्तुनोऽर्थान्तरस्यैव न्यसनम्
अर्थान्तरन्यासः । का. सू. ४.३.२१

धर्मिणमर्थविशेषं सामान्यं वाभिधाय तत्सिद्ध्यै ।
यत्र सधर्मिकमितरं न्यस्येत्सोऽर्थान्तरन्यासः ॥ रु.क.८.७६

भवेदर्थान्तरन्यासः सादृश्येनोत्तरेण सः । अ. ३४४.२३

वाक्यार्थान्तरविन्यासो मुख्यतात्पर्यसाम्यतः
ज्ञेयः सोऽर्थान्तरन्यासः यः समर्पकतयाहितः ॥ व. ३.५४