This page has not been fully proofread.

Vibhāvanā: Uncommon Causation
 
Philosophers without the aid of any studies,
Great lords without having any properties,
Without any decorations handsome and fortunate -
Such Jinas, the divine masters, may you all protect.
 
Definitions
 
हेतुं विना वितततां प्राप्ता सा तु विभावना । वि. १४.१०
प्रसिद्धहेतुव्यावृत्त्या यक्तिञ्चित्कारणान्तरम् ।
 
यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ॥ का. २.१६६; अ. ३४४.२७
क्रियायाः प्रतिषेधे या तत्फलस्य विभावना।
 
ज्ञेया विभावनैवासौ समार्थी सुलभे सति ॥ भा. का. २.७७ अ. सं. २.१६
क्रियाप्रतिषेधे प्रसिद्धतत्फलव्यक्तिर्विभावना ॥ का सू. ४.३.१३
सेयं विभावनाख्या यस्यामुपलभ्यमानमभिधेयम् ।
अभिधीयते यतः स्यात्तत्कारणमन्तरेणैव ॥
यस्यां तथा विकारस्तत्कारणमन्तरेण सुव्यक्तः ।
प्रभवति वस्तुविशेषे विभावना सेयमन्या तु ॥
यस्य यथात्वं लोके प्रसिद्धमर्थस्य विद्यते तस्मात् ॥
अन्यस्यापि यथात्वं यस्यामुच्येत सान्येयम् ॥ रु. का. ६.१६, १८, २०
स्वकारणपरित्यागपूर्वकं कान्तिपुष्टये ।
 
भावनार्थस्य केनापि विशेषेण विभावना ॥ व. ३.५७
प्रसिद्धहेतुव्यावृत्त्या यकिंचित्कारणान्तरम् ।
 
यत्र स्वाभाविकं वापि विभाव्यं सा विभावना ॥ स. ३.६
प्रसिद्धहेतुत्यागेन हेत्वन्तरविभावनम् ।
 
यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना । शृ. १०
क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना । का. प्र. १०.१६२
कारणाभावे कार्यस्योत्पत्तिर्विभावना । अ. स. ४२
विना कारणसद्भावं यत्र कार्यस्य दर्शनं ।
नैसर्गिकगुणोत्कर्षभावनात् सा विभावना ॥ वा. ४.६७
विभावना विनापि स्यात् कारणं कार्यजन्म चेत् । च. ५.७५
असति प्रसिद्धहेतौ कार्योत्पत्तिर्विभावना भवति। ए. ८.३६
कारणेन विना कार्यस्योत्पत्तिर्विभावना । प्र. य. ४२३
विभावना विना हेतुं कार्योत्पत्तिर्यदुच्यते । सा. १०.६६
कारणाभावेऽपि कार्योपक्षेपो विभावना अ. शे. ४४
विभावना विनापि स्यात्कारणं कार्यजन्म चेत् । कु. ३४.७७
 
Google
 
Digitized by
 
153
 
Original from
UNIVERSITY OF MICHIGAN