This page has been fully proofread once and needs a second look.

Definitions
 
नानाधिकरणार्थानां शब्दानां संप्रदीपकम् ।
एकवाक्येन संयुक्तं तद्दीपकमिहोच्यते ॥ ना. १६.५३

जातिक्रियागुणद्रव्यवाचिनैकत्रवर्तिना ।
सर्ववाक्योपकारश्चेत् तदाहुर्दीपकं .... ॥ का. २.६७

आदिमध्यान्तविषयाः प्राधान्येतरयोगिनः ।
अन्तर्गतोपमाधर्मा यत्र तद्दीपकं विदुः ॥ अ. सं. १

आदिमध्यान्तविषयं त्रिधा दीपकमिष्यते। भा. का. २.२५

उपमानोपमेयवाक्येष्वेका क्रिया दीपकम् । का. सू. ४.३.१८

यत्रैकमनेकेषां वाक्यार्थानां क्रियापदं भवति ।
तद्वत्कारकपदमपि तदेतदिति दीपकम्... ॥ रु. का. ७.६४

क्रियाजातिगुणद्रव्यवाचिनैकत्रवर्तिना ।
सर्ववाक्योपकारश्चेद्दीपकं तन्निगद्यते ॥ स. ४.७७

सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् ।
सैव कियासु बह्वीषु कारकस्येति दीपकम् ॥ का. प्र. १०.१५६

प्रस्तुताप्रस्तुतानां तु दीपकम् । अ. स. १५

आदिमध्यान्तवर्त्येकपदार्थे नार्थसंगतिः ।
वाक्यस्य यत्र जायते तदुक्तं दीपकं यथा ॥ वा. ४.६६

प्रकृताप्रकृतानां धर्मैक्यं दीपकम् । है. का. ६.७

प्रस्तुताप्रस्तुनां च तुल्यत्वे दीपकं मतम्। च. ५.५०

दीपकैकावलीयोगान्मालादीपकमुच्यते । च. ५.८७

मिलितानां तथैषां दीपकमित्युच्यते । ए. ८.१६

प्रस्तुताप्रस्तुतानां तु साम्यत्वे तुल्यधर्मतः ।
औपम्यं गम्यते यत्र दीपकं तन्निगद्यते ॥ प्र. य. ४२६

अप्रस्तुतप्रस्तुतयोर्दीपकं तु निगद्यते । सा. १०.४८

आदिमध्यवर्तिनैकेन जातिक्रियागुणद्रव्यरूपिणा पदार्थेन
यत्रार्थसंगतिस्तद्दीपकम् । वा. का. ३

समस्तवाक्योपकारकत्वं दीपकत्वम् । अ. शे. ४.४

वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः । कु. १५.४८

कारकैक्ये क्रिया बह्वो व्यत्ययेऽपि च दीपकम् । अ. कौ. ८.६४

प्रकृतानामप्रकृतानाञ्चैकसाधारणधर्मान्वयो दीपकम् । र. २