This page has been fully proofread once and needs a second look.

Definitions
 
आशयस्य विभूतेर्वा यन्महत्त्वमनुत्तमम् ।
उदात्तं नाम तं प्राहुरलङ्कारं मनीषिणः ॥ का. २.३००

उदात्तमृद्धिमद्वस्तु चरितं च महात्मनां ।
उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतम् ॥ अ. सं ४, का. सा.

उदात्तं वस्तुनः सम्पत् महतां चोपलक्षणम् । का. प्र. १०.१७६
समृद्धिमद्वस्तुवर्णनमुदात्तम् ।

अङ्गभूतमहापुरुषचरितञ्च । अ. स. ८१, ८२

उदात्तमृद्धेश्चरितं श्लाघ्यं चान्योपलक्षणम्। च. ५।१२०

अभिमतमेतदुदात्तं समृद्धिमद्वस्तुवर्णनं यत्र ।

यच्च महापुरुषाणामङ्गतया चरितवर्णनं भवति । ए. ८.७४

तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते । प्र. य. ४६६

लोकातिशयसंपत्तिवर्णनोदात्तमुच्यते ।

यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत् । सा. १०

वस्तुसंपत्त्या महदुपलक्षणेन च वर्णनमुदात्तम् । वा. का. ३

उदात्तमृद्धेश्चरितं श्लाघ्यं चान्योपलक्षणम् । कु. ६५.१६२

समृद्धिरुदात्तं वस्तुनः परा। अ. कौ. ८.२८४

वस्तुप्रचय उदात्तं महतामङ्गत्ववचनं वा अ-कौ. ४४
 
<headword>उदारसार</headword>
 
उदारसारः Udārasārah: The Excellent :
 
udāra means exalted, high, broad, wide, great, and sāra means essence,
brevity, best, most excellent etc. This figure is defined by Jayadeva only.
According to him, it is Udārasāra where some special quality of a
thing is indicated even if such thing shows very close similitude
with another thing. One variety of Atiśayokti closely resembles
Udārasāra, and therefore, it is useless to treat it as a separate figure.
 
eg 1. madhuraṃ madhu pīyūṣaṃ
tasmāt tasmāt kaver vacaḥ.

मधुरं मधु पीयूषं तस्मान्तस्मात् कवेर्वचः ।

Honey is sweet, sweeter than honey is nectar,
Even than that poetry is sweeter.
 
Definitions
 
उदारसारश्चेद् भाति भिन्नोऽभिन्नतया गुणः । च. ५.८९