This page has been fully proofread once and needs a second look.

Day by day some living beings
To the abode of Death enter,
The rest still want to remain immortal --
What else than this is a greater wonder!
 
It is a poetic statement in the form an answer to the question
--what is the most astonishing thing in this world? The question
has been put in the previous verse. Still from the answer given in
this verse the question can be presumed.
 
Definitions
 
यत्र ज्ञातादन्यत्पृष्टस्तत्त्वेन वक्ति तत्तुल्यम् ।
कार्येणानन्यसमख्यातेन तदुत्तरं ज्ञेयम् ॥ रु. का. ८.३२
पदार्थानान्तु यः सारस्तदुत्तरमिहोच्यते । स. ३।१३
उत्तरश्रुतिमात्रतः प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति ।
असकृद् यदसंभाव्यमुत्तरम् ॥ का. प्र. १०.१२१
उत्तरात् प्रश्नोन्नयनमसकृदसम्भाव्यमुत्तरं चोत्तरम् । अ. स. ७५
उत्तरवचनश्रवणादुन्नयनं यत्र पूर्ववचनानाम् ।
क्रियते तदुत्तरं स्यात्प्रश्रादप्युत्तरं यत्र ॥ रु. का. ७.६३
यत्र प्रश्नपुरःसरमेवासंभाव्यमुत्तरं किमपि ।
असकृद्भवति निबद्धं तदुत्तरं तावदत्रैकम् ॥
यत्र त्वनुपनिबद्धः प्रश्नः स्यादुत्तरान्नेयः ।
कमपि तदीयं भेदं द्वितीयमाचक्षते सुधियः ॥ ए. ८.६६-६७
यत्र प्रश्नपुरः सरमुत्तरमुभयोर्मिथ:थः समुल्लसति ।
प्रश्नोत्तरिकासंज्ञं तमलंकारं विदुर्विबुधाः ॥ ए. ८.६८
उत्तरात् प्रश्न उन्नेयो यत्र प्रश्नोत्तरे तथा ।
बहुधा च निबध्येते तदुत्तरमुदीर्यते ॥ प्र. य. ४५४
उत्तरं प्रश्नस्योत्तरादुन्नयो यदि ।
यच्चासकृदसम्भाव्यं सत्यपि प्रश्न उत्तरम् । सा. १०.८२
उत्तरवचनश्रवणात् प्रश्नोन्नयनमुत्तरम् । वा. का. ३
किंचिदाकूतिसहितं स्याद्गूढ़ोत्तरमुत्तरम् । कु. ८३.१४६
प्रश्नस्योन्नयनं यदि उत्तरश्रुतिमात्रेणोत्तरं स्यात् । अ. कौ. २६६
प्रश्नप्रतिबन्धकज्ञानबिषयीभूतोऽर्थ उत्तरम्। र. २
उत्तरमात्रात् प्रश्नोन्नयने स्यादुत्तरं नाम ।
प्रश्ने लोकाविदितोत्तरस्य तच्चासकृत्प्रोक्तौ ॥ अ-कौ. ५०