This page has been fully proofread once and needs a second look.

भट्टार्यै 'भारत्या सहधर्मचाररतया स्वाधीनसङ्कीर्तनः'
ति । एतद्दशावतारस्तोत्रविवक्षुवक्त्रे भारती सन्निधत्ते, श-
दार्थज्ञानं सम्यक्तस्य दत्वा भगवदवतारांश्तेन सम्यक्स्ताव-
यतुम् । स्वस्या अपि तत्स्तवनेऽन्वय: स्यादिति । श्वशुरस्य
भगवतः स्तोत्रस्याज्ञकर्तृकपठनं सा न मृष्येत । अतो यो
को वा जडोऽज्ञो एतत्स्तोत्रं विवक्षेत् तदिच्छाक्षण एव
ना तद्वक्त्रे सन्निधत्ते तं ज्ञं कर्तुम्
 
बहुमुखी न चतुर्मुखी, यथा नाथमुखेषु । 'वहति
महिलामाद्यो वेधास्त्रयीमुखरैर्मुखैः' इति नाथमुखेषु चतुर्मुख-
वमेव । अत्र तदधिकमुखत्वम् । तावत्कुतूहलं तस्याः । वि-
द्योदन्वति कवौ जातेयं स्तोत्रसरस्वती । कथमेतां सरस्वती न
बहुमन्येत ॥
 
भक्तिः परा मानसे । यथा वक्त्रस्य सरस्वत्या शोभा,
तथा मनसो भक्त्या शोभेति व्यज्यते । भक्तिरहितं मनो
जडमुखवद्गर्हणीयम् । विद्योदन्वतीति भक्तिसागरे इत्यप्यभि-
प्रेतम् । वेदान्ताचार्यप्रयुक्तविद्याशब्दस्य भक्तिवाचकत्वं स्वर-
सम् । भक्तिसागरे जातस्यास्य स्तोत्रस्य विवक्षणे एतन्मातृ-
भूता भक्तिजलधिः परा भक्तिः स्वसुतं प्रकाशयितुमिच्छन्ती
मनसि नियतं सानुग्रहं सन्निदध्यात् । मनसि खलु विवक्षा