This page has not been fully proofread.

४१४ भट्टि काव्ये -- चतुर्थे तित-काण्डे लक्षण-रूपे चतुर्थी वर्गः,
 
हयद्विपं पशुन्य विभाषैकवद्भावः । प्रादेकत शब्दितवन्तः । ८१ । दे
शब्दोत्साहे' इत्यनुदात्तेत् ॥
 
१३५५ - अ - निमित्तान्यथा ऽपश्यन्न॑स्फुटद् रवि-मण्डलम् ॥
औक्षन् शोणितम॑म्भोदा, वायवोऽवान् सु-दुःसहाः॥
अनिमित्तानीत्यादि — अनिमित्तानि कुत्सितनिमित्तानि । नजत्र कुत्सायाम् ।
गच्छन्तोऽपश्यन् दृष्टवन्तः । तानि दर्शयति-रविमण्डलमस्फुटत् स्फुटितम्,
अम्भोदाः शोणितमौक्षन् वृष्टाः । '७०५ । उक्ष सेचने' । वायवः सुदुःसहाः प्रचण्डा
अवान् वान्ति स्म । शाकटायनमतादत्र उसादेशः ॥
 
१३५६ - आर्च्छन् वामं मृगाः कृष्णाः,
शस्त्राणां व्यस्मरन् भटाः ॥
रक्तं न्यष्ठीवदंक्लाम्य-
देखिद्यद् वाजि - कुञ्जरम् ॥ १० ॥
 
आच्छेन्नित्यादि - निर्गच्छतां वामपार्श्व कृष्णमृगा आर्च्छन् गताः । अतः
'२६६०। पा-घ्रा -।७।३।७८।' इति ऋच्छादेशः । '१३८० । ऋच्छ गतौ' इत्यस्य
वा रूपम् । भटाश्च शस्त्राणां व्यस्मरन् विस्मृतवन्तः '६१३। अधीगर्थ–।२।३।५२॥
इति कर्मणि षष्ठी । वाजिकुञ्जरमखिन्नमश्रान्तमपि रक्तं न्यष्टीवत् । '६०१ ष्ठिवु
निरसने' इति भौवादिकस्य ग्रहणम् '२३२० । ष्ठिवु- कुमु-चमां शिति ।७।३।७५॥
इति दीर्घः । अक्लाम्यत् कान्तं च ॥
 
१३५७ - न तान॑गणयन् सर्वाना॑स्कन्दंश च रिपून्, द्विषः ॥
अच्छिन्दन्न॑सिभि॒िस् तीक्ष्णैर॑भिन्द॑स् तोमरैस् तथा ११
 
न तानित्यादि — तान् सर्वानशुभान्नागणयन् नादृतवन्तः किमेतैरिति । अपि
नु रिपूनास्कन्दन् अभिगतवन्तः । द्विपो राक्षसांस्तीक्ष्णैरसिमिररीनच्छिन्दन् छिन्न-
वन्तः । तथा तोमरैस्तीक्ष्णैरभिन्दन् विदारितवन्तः ॥
 
१३५८ - न्यकृन्तंश् चक्र - धाराभिरंतुदन् शक्तिभिर् दृढम् ॥
भल्लैर॑विध्यन्नु॒ग्रा॒ऽग्रैर॑तॄंह॑स् तोमरैर॑लम् ॥ १२ ॥
न्यकृन्तन्नित्यादि-चक्रधाराभिः न्यकृन्तन् छिन्नवन्तः । मुचादित्वानुम् ।
शक्तिभिश्च दृढमत्यर्थमतुदन् व्यथितवन्तः । भलैरविध्यन् ताडितवन्तः । '२४१२॥
अहि-ज्या-।६।१।१६।' इति सम्प्रसारणम् । उम्राग्रैस्तीक्ष्णाम्रैस्तोमरैरलं पर्याप्त॒मंहन्
इतवन्तः । '१५४९। तृह हिंसायाम् ।' रुधादित्वात् अम् । अल्लोपानुस्खारौ ॥
१३५९ - आस्यन् प्लवङ्गमा वृक्षान॑ध॒न्वन् भू-धरैर् भृशम् ॥
अहिंसन् मुष्टिभिः क्रोधादंदशन् दशनैरपि ॥१३॥
 
"