This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके 'सीताऽनिशानदर्शन' नाम दशमः सर्गः-२९१
 
"
 
निपुणम्-
८८३ - वोद्धव्यं किमिव हि, यत् त्वया न वुद्धं,
किं वा ते निमिपितमध्य-बुद्धि-पूर्वम् ॥
लव्धऽऽत्मा तव सुकृतैरनिष्ट-शङ्की
स्नेहोघो घटयति मां तथापि वक्तुम् ॥ ७४ ॥'
बोद्धव्यमित्यादि — किमिव तहोद्धव्यं ज्ञातव्यमस्ति नैवेत्यर्थः । यत्त्वया न
बुद्धं बुद्ध्या विज्ञेयं तव किंचिच्चेष्टितमपि नोपेक्षापूर्वकं यतो निमिपितमप्यक्ष्णो-
निमीलनमपि अबुद्धिपूर्वकं नैवेत्यर्थः । यद्येवं किमित्यस्मानुपदिशसीत्याह-
लब्धात्मेति । तथापि सुकृतैलब्धात्मा लब्धजन्मा स्नेहौवः स्नेहसमूहः । अनि-
टशङ्की अनिष्टशङ्कनशीलः । मां वक्तुं वदेति घटयति । निपुणमिति अर्थावगा-
ढत्वादस्य चोदात्तेऽन्तर्भावो द्रष्टव्यः । भाविकत्वमित्यलंकार उक्तः । तद्वन्धवि-
षयत्वात्पृथक् प्रदर्शयिष्यति ॥
 
८८४ - सौमित्रेरिति वचनं निशम्य रामो
 
-
 
जृम्भावान् भुज-युगलं विभज्य निद्रान् ॥
अध्यष्ठाच् छिशयिषया प्रवाल-तल्पं
रक्षायै प्रति-दिशमा॑दिशन् प्लवङ्गान् ॥ ७५ ॥
इति भट्टिकाव्ये दशमः सर्गः ॥
 
सौमित्रेरित्यादि — इत्येवं सौमित्रेः लक्ष्मणस्य वचनं निशम्य श्रुत्वा रामो
जृम्भावान् जातजृम्भिकः जृम्भणं जृम्भा । '३२८० । गुरोच हलः । ३।३।१०३॥
इत्यकार: । टाप् । निद्वान् निद्रां गच्छन् । '११२८ वा कुत्सायां गतौ ।'
इत्यस्मादादादिकस्य निपूर्वस्य शतरि रूपम् । शिशयिषया शयितुमिच्छया ।
भुजयुगलं विभज्य एकं शिरःस्थाने न्यस्य द्वितीयं शरीरस्योपरि प्रसार्येत्यर्थः ।
विभुज्येति पाठान्तरम् । तत्र क्रोडभागे वक्रीकृत्येत्यर्थः । प्रवालतल्पं पलवशय-
नीये अध्यष्टात् अधिष्ठितवान् । २२२३ । गाति-स्था - ।२।४॥७७ । इति सिचो
लुक् । '२२७६ । प्राक् सितात्- ।८।३।६३।' इत्यादिना षत्वम् । समुद्रदिदृक्षया
नियमपूर्वं सुष्वापेत्यर्थः । रक्षायै रक्षानिमित्तं लवङ्गानादिशन् नियोजयन् । प्रति-
दिशं दिशि दिशि । '६७७ । अव्ययीभावे शरत्प्रभृतिभ्यः ।५।४।१०७ । ' इति टच् ।
तत्र दिकूशब्दस्य पठितत्वात् ॥
 
इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री - भट्टिकाव्ये
तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमः परिच्छेदः (वर्गः ),
तथा लक्ष्यरूपे कथानके 'सीताऽभिज्ञानदर्शनं' नाम
दशमः सर्गः ॥