This page has not been fully proofread.

भट्टि - काव्ये - तृतीये प्रसन्न
काण्डे लक्षण-रूपे प्रथमो वर्गः,
रघु-सु॒तम॑नु॒जो जगाद वाचं
 
स- जल-घन-स्तनयित्नु -तुल्य घोषः ॥ ७१ ॥
अथेत्यादि —- अथ चन्द्रदर्शनानन्तरं रघुसुतं राममभिरामः कामाभिभूत-
वादाभिमुख्येन रम्यत इति । अनुजः कनीयान् भ्राता वाचं वक्ष्यमाणां जगाद
गदितवान् । नयनमनोहरः प्रेक्षणीय इत्यर्थः । अत्र नयने मनश्चावर्जयन् नयन-
मनोहर इति तुल्ययोगिता । न्यूनस्य लक्ष्मणस्याधिकेन सहाभिरमणीयगुणसाम्य-
विवक्षया अभिरमणतुल्यक्रियायोगात् । स्मर इव चित्तभवोऽपि तस्य चेतास
सदा भवतीति लिष्टम् । तथाप्यवामशीलोऽप्रतिकूल इति विरोध: । स्मरस्तु
वामशीलः । सजलघनस्तनयिनुना शब्देन तुल्यो घोपो यस्य । संसृष्टिरित
बहलंकारयोगात् । तथा चोक्तम् – 'पराभिभूता संसृष्टिर्बह्वलंकारयोगतः ॥
रचिता रत्नमालेव सा चैवं कथ्यते यथा ॥' इति ॥
 
आशी:-
२९०
 
८८१ - 'पति-वध-परिलुप्त-लोल- केशीर्
 
-
 
नयन- जलापताऽञ्जनौष्ठ-रागाः ॥
कुरु रिपु वनिता, जहीहि शोकं,
 
क्व च शरणं जगतां भवान्, क्व मोहः ॥ ७२ ॥
 
m
 
पतीत्यादि —– पतिवधेन परिलुप्ता भ्रष्टा लोला: केशा यासां रिपुवनिता-
नाम् । नयनजलेनाश्रुणा अपहृतमञ्जनमोष्टरागच यासां ताः मन्दोदरीप्रभृती:
कुरु । शोकं जहीहीत्याशंसे । किं तत् । व भवान् जगतां शरणमाश्रयः क च मोह
इति । आशीरिति इष्टस्याशंसनात् । तथा चोक्तम्- 'आशीरिति च केषांचिद-
लंकारतया मता ॥ सौहृदस्याविरोधोक्तौ प्रयोगोऽस्याश्च तद्यथा ॥" इति ॥
 
हेतु:-
८८२ - अधिगत महिमा मनुष्य लोके
 
बत सुतराम॑वसीदति प्रमादी, ॥
गज-पतिरु॑रु-शैल-शृङ्ग-वर्ष्मा
 
गुरुर॑वमज्जति पङ्क-भाङ्, न दारु. ॥ ७३ ॥
अधिगतमहिमेत्यादि-मनुष्यलोके योऽधिगतमहिमा प्राप्ताधिपत्यः स
प्रमादी शोकादिषु प्रमाद्वान् बत कष्टमवसीदति न कार्यसमर्थो भवति । कुत
एतदित्याह- गजपतिः उरुशैलशृङ्गवर्मा महाशैलशृङ्गप्रमाणं वर्ण्य वपुर्यस्य
सः । पकभाक् पकं भजतीति । '२९७६ । भजो ण्विः । ३।२।६२ ।' पङ्कमवतीर्णः
सन् अवमज्जति अवसीदति । यस्मादसौ गुरुः, न पुनर्दारु काष्टं तस्मान्मुख
शोकम् । हेतुरिति गजपतेर्हेतु द्वारेण निर्देशात् अयमर्थान्तरो द्रष्टव्यः ॥