2023-02-15 17:22:35 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'सीताऽभिज्ञानदर्शन' नाम दशमः सर्गः-२८९
धानात् न निश्चिकाय चन्द्रमिति स्तुत्यर्थ सन्देहवचोऽभिधानाच्च । तथा चोक्तम्-
'उपमानोपमेयस्य तत्त्वं च वदतः पुनः ॥ समन्देहवचः स्तुत्यै ससन्देहं
विदुर्यथा ॥' इति ॥
अनन्वयः -
८७८- कुमुद-वन-चयेषु कीर्ण-रश्मिः
क्षत-तिमिरेषु च दिग्-वधू-मुखेषु ॥
वियति च विललास तद्-वदि॑िन्दुर,
विलसति चन्द्रमसो न यद् वर्दन्यः ॥ ६९ ॥
कुमुदद्वनचयेष्वित्यादि — कुमुदवनानां चयेषु समूहेपु, दिग्वधूमुखेषु,
वियति च, क्षततिमिरेपु खण्डिततमःसु यतस्तेषु विकीर्णरश्मिः क्षिप्तमयूखः
विललास तहदिन्दुः शोभते स । चन्द्रमसः सकाशात् अन्यो चढद्यथा न विकसति
तथा विललास । इदमुक्तं भवति । इन्दुर्विललास चन्द्र इवेति । अनन्वय इति
सत्सदृशस्य साम्यस्याविवक्षातश्चन्द्वस्योपमानोपमेयत्वात् । तथा चोक्तम्-'यत्र तेनैव
तस्य स्यादुपमानोपमेयता ॥ सादृश्यस्याविवक्षातस्तमित्याहुरनन्वयम् ॥' इति ॥
उत्प्रेक्षाऽवयवः -
८७९ - शरणमिव गतं तमो निकुञ्जे
विटपि-निराकृत चन्द्र रश्म्यरातौ ॥
पृथु - विषम-शिलाऽन्तराल - संस्थ
स- जल-घन-द्युति भीत-वत् ससाद ॥ ७० ॥
शरणमित्यादि – पृथुविषमशिलानां यान्यन्तरालानि तेषु संस्थं संतिष्ठ-
मानं सत्तमः निकुञ्जे गहने विटपिभिर्निराकृताश्चन्द्रस्य रश्मय एवारातयो यस्मा-
निकुञ्जात् तस्मिन् ससाद विलीनं शरणमिव । यथा कश्चित् भीतो दुर्गे निली-
यते । सजलस्य घनस्येव द्युतिर्यस्य तमसः । उत्प्रेक्षावयव इति । भीतवत्स-
सादेति उपमाश्लेषलक्षणस्य लिष्टस्यार्थेन योगात् शरणमिव गतमित्युत्प्रेक्षायो-
गात्, 'विटपिनिराकृतचन्द्ररश्म्यरातौ इति रूपकार्थेन योगात् । तथा चोक्तम्-
'श्लिष्टस्यार्थेन संयुक्तः किंचिचोप्रेक्षयान्वितः ॥ रूपकार्थेन च पुनरुत्प्रेक्षावयवो
यथा ॥' इति ॥ 'विटपितिरस्कृत चन्द्ररश्मियोगः' इति पाठान्तरं तत्र रूपकार्थो
नास्तीति असंपूर्णलक्षणता ॥
संसृष्टि:-
८८० - अथ नयन - मनो-हरो ऽभिरामः
स्मर इव चित्त भवोऽप्य-वाम-शीलः ॥
भ० का० २५