This page has been fully proofread once and needs a second look.

<bold>५ परिशिष्टम् ।</bold>
 
सूक्तिमुक्तावलावमरुकनाम्ना समुद्धृताः पूर्वश्लोकातिरिक्ताः श्लोकाः । यथा —
 
कान्ते कथंचिद्गदितप्रयाणे क्षणं विनम्रा विरहार्दिताङ्गी ।
ततस्तमालोक्य कदा गतोऽसीत्यालिङ्ग्य मुग्धा मुदमाससाद ॥ १५८ ॥
 
यद्गम्यं गुरुगौरवस्य सुहृदो यस्मिल्लभन्तेऽन्तरं
यद्दाक्षिण्यवशाद्भयाच्च सहते मन्दोपचारानपि ।
यल्लज्जा निरुणद्धि यत्र शपथैरुत्पाद्यते प्रत्यय-
स्तत्किं प्रेम स उच्यते परिचयस्तत्रापि मानेन किम् ॥ १५९ ॥
 
दृष्टे लोचनवन्मनाङ्मुकुलितं पार्श्वस्थिते वक्त्रव-
न्न्यग्भूतं बहिरासितं पुलकवत्स्पर्शं समातन्वति ।
नीवीबन्धवदागतं शिथिलतां संभाषमाणे क्षणा-
न्मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥ १६० ॥
 
ललितमुरसा तरन्ती तरलतरङ्गौघचालितनितम्बा ।
विपरितरक्तासक्तेव दृश्यते सरसि सा सख्या ॥ १६१ ॥
 
<bold>६ परिशिष्टम् ।</bold>
 
शार्ङ्गधरपद्धतौ पूर्वश्लोकाधिकः श्लोकः । यथा —
 
कान्तामुखं सुरतकेलिविमर्दखेद-
संजातघर्मकणविच्छुरितं रतान्ते ।
आपाण्डुरं विलसदर्धनिमीलिताक्षं
संस्मृत्य हे हृदय किं शतधा न यासि ॥ १६२ ॥
 
<bold>७ परिशिष्टम् ।</bold>
 
औ[^१]चित्यविचारचर्यायां पूर्वश्लोकातिरिक्तः श्लोकः । यथा —
 
गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा
द्वित्राण्येव पदानि तिष्ठतु भवान्पश्यामि यावन्मुखम् ।
संसारे घटिकाप्रणालविगलद्वारा समे जीविते
को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगमः ॥ १६३ ॥
 
[^१.] औचित्यविचारचर्चायाममरकनाम्नायं श्लोकः समुद्धृतस्तत्रामरुकस्येति भाति.