2022-10-17 11:28:25 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
प्रातर्वाति मधौ विकृ[^१]ष्टविकसद्राजीवराजीरजो-
जालामोदमनोहरो रतिरसग्लानिं हरन्मारुतः ॥ १२३ ॥
मधौ वसन्ते प्रभात एवंविधो वातो वहति । कीदृशः । रमणीनां मनोहरमुखचन्द्रस्य
स्वेदजलबिन्दुयुक्तः । तथा तासां चञ्चलां कुटिलकेशपङ्किं कम्पयन् । तथा तासां कटी-
वस्त्रं स्पृशन् । तथा तासां संभोगसक्तिश्रमं स्फेटयन् । कीदृशः । अपहृतकमलपङ्क्तिप-
रागसमूहसौगन्ध्यहृद्यः ॥
अङ्गं चन्दनपाण्डु पल्लवमृदुस्ताम्बूलताम्रोऽधरो
धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने ।
अन्तःपुष्पसुगन्धिराजिकबरी सर्वाङ्गलग्नाम्बरं
कान्तानां कमनीयतां विद[^२]धते ग्रीष्मेऽपराह्णागमे ॥ १२४ ॥
ग्रीष्मस्य संध्यासमये नारीणामेतानि वस्तूनि रमणीयतां कुर्वन्ति । एतानि कानि ।
चन्दनशुभ्रमङ्गम् । न केवलमङ्गम् । किसलयकोमलस्ताम्बूलरक्तोऽधरश्च । तथा प्रक्षा-
लितकज्जले नयने च । कथंभूते । धारागृहजलस्नानारुणिते । तथा अशुष्कः केशपा-
शश्च । कीदृशः । मध्यस्थितकुसुमसुरभिः । तथा निर्मलसूक्ष्मवस्त्रं च ॥
वरमसौ दिवसो न पुनर्निशा ननु निशैव वरं न पुनर्दिनम् ।
उभयमेतदपि व्रजतु क्षयं प्रियतमेन न यत्र समागमः ॥ १२५ ॥
एका सखी एवं ब्रूते — हे सखि, असौ दिवसो वरं न पुना रात्रिः । ततो द्वितीया
ब्रवीति — हे सखि, रात्रिरेव श्रेष्ठा न पुनर्दिनं वरम् । ततस्तृतीया वदति — यत्र दिने
यस्यां रात्रौ च प्रियतमेन सह मेलापको नास्ति तद्द्वितयमपि नाशं यातु ॥
म[^३]न्दं मुद्रितपांसवः परिपतञ्ज्ञा[^४]तान्धकारा मरु-
द्वेगध्वस्तकुटीरकाग्रनिपतच्छिद्रेषु लब्धान्तराः ।
कर्मव्यग्रकुटुम्बिनीकुचभरस्वेदच्छिदः प्रावृषः
प्रारम्भे म[^५]दयन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥ १२६ ॥
वर्षायाः प्रारम्भे एवंविधा जलबिन्दवो हर्षयन्ति । कथंभूताः । मन्दं यथा स्यादेवं
निवारितधूलयः । सर्वदागच्छज्ज्ञाततमसः । वायुवेगापसारिततृणकुटीरकजातच्छिद्रेषु
प्राप्तप्रवेशाः । तथा गृहकर्माकुलगृहस्थकामिनीकुचयुगस्वेदापहारिणः कन्दलपत्त्रो-
ल्लासिनः ॥
[^१.] "प्रकाम" इति पाठः. [^२.] "प्रकुरुते ग्रीष्मापराह्णागमः" इति पाठः. [^३.] इतः प्रभृ-
तिश्लोकपञ्चकमर्जुनवर्मदेवेन प्रक्षिप्तमित्युक्त्वा षट्पञ्चाशश्लोकानन्तरमुद्धृत (४६ पृष्ठे )-
मस्ति. [^४.] "झांकारिझञ्झामरुत्" इति पाठः. [^५.] "निपतन्ति" इति पाठः.