This page has been fully proofread once and needs a second look.

अमरुककविः ।
 
अमरुशतकं मण्डनमिश्रपत्न्याः शारदायाः प्रश्नानामुत्तरदानार्थं गतासोरमरुकाख्य-
महीपतेर्देहं प्रविष्टेन श्रीशंकराचार्येण प्रणीतमिति बहूनां प्रवादः. “भगवाञ्छंकराचार्यो
दिग्विजयच्छलेन काश्मीरमगमत् । तत्र शृङ्गाररसवर्णनार्थं सभ्यैरभ्यर्थितः "शृङ्गारी
चेत्कविः काव्ये जातं रसमयं जगत्” इति वचनादमरुकनाम्नो राज्ञो मृतस्य परवपुःप्रवेश-
विद्यया शरीरे प्रवेशं कृत्वा स्त्रीशतेन सह केलिं विधाय प्रातस्तथा कारयामास | पिशुनैः
कापटिकोऽयमाजन्मब्रह्मचारीत्युपहसितः शान्तरसमत्र व्याचष्टे इति किंवदन्ती ।" इति
रविचन्द्रः स्वकृताया अमरुशतकटीकायाः प्रारम्भे लिलेख. किं त्वेतत्सर्वं शंकरदिग्वि-
जयानवलोकनमूलं प्रमादविलसितम्. तथा हि माधवकविप्रणीते शंकरदिग्विजये नवम-
दशमसर्गयोः “कलाः कियत्यो वद पुष्पधन्वनः किमात्मिकाः किं च पदं समाश्रिताः ।
पूर्वे च पक्षे कथमन्यथास्थितिः कथं युवत्यां कथमेव पूरुषे ॥ इति श्रीशंकराचार्यं प्रति
शारदाप्रश्नाः । ततः शारदाप्रश्नश्रवणानन्तरं यद्यस्याः प्रश्नानामुत्तरं न दास्यामि तदा
ममाल्पज्ञता प्रतीयेत, उत्तरदाने तु संन्यासिनो मम कामशास्त्रचर्चया धर्मक्षयो भवेदिति
विचार्य प्रश्नोत्तरदाने मासमात्रमवधिं विधाय शिष्यैः सह गगनमुत्पपाताचार्यः । गगने
बम्भ्रम्यमाण एव मृगयार्थमायातमटव्यामेव दैवयोगाद्गतप्राणं विलपन्तीभिः प्रमदाभिः
परीतममरकाख्यमहीपतिं तरुमूले विलोक्य सनन्दनाख्यशिष्येण सह संमन्त्र्य शिष्यैः
कृतरक्षमात्मकलेवरं कुत्रचन गिरिगह्वरे निधाय योगयुक्त्यामरकनृपशरीरे प्रविवेश ।
प्रमुदितैर्मन्त्रिभिर्महिषीभिश्च समेतो नृपशरीरधारी राजधानीं च जगाम । तत्र च म-
नोहरतराभिर्महीपतिपङ्कजाक्षीभिस्तांस्तान्भोगानुपभुज्य कामतत्त्वं सम्यगभिज्ञाय 'वा-
त्स्यायनप्रोदितसूत्रजातं तदीयभाष्यं च विलोक्य सम्यक् । स्वयं व्यधत्ताभिनवार्थगर्भं
निबन्धमेकं नृपवेषधरी ॥" इत्याख्यायिका वर्तते. एतेन श्रीशंकराचार्यो वात्स्यायनी-
यकामसूत्रानुकूलं कमपि निबन्धं रचयामास, तत्रैव च शारदाप्रश्नानामुत्तराण्यप्यन्त-
र्भावयांचकारेति प्रतीयते. न त्वमरुशतकनिर्माणसूचनमात्रमपि शंकरदिग्विजये समुप-
लभ्यते. नाप्यमरुशतके शारदाप्रश्नोत्तरानुरूपं किमप्यस्ति. एवं रविचन्द्रोक्तमप्यसंबद्ध-
मेव. यतस्तत्रैव षोडशे सर्गे आचार्यस्य काश्मीरयात्रा तत्र च शारदासदने तत्तद्देशवा-
सिभिर्वादिभिर्विवादश्च सम्यग्वर्णितः किं तु शृङ्गाररसवर्णनार्थं सभ्यैरभ्यर्थित इत्या-
दिरविचन्द्रोक्तं तत्र नोपलभ्यते तस्मादेवंविधा निर्मूला जनश्रुतयः कथं प्रमाणत्वेन
स्वीकर्तुमर्हाः ? अथ यदि शारदाप्रश्नोत्तरदानार्थं निबन्धं प्रणीयामरुशतकमप्याचार्येणैव
निरमायीति को विकल्पावकाश इत्युच्यते, तर्हि तन्निबन्धनिर्माणं शारदाप्रश्नोत्तरदाना-
र्थमात्मनः सर्वज्ञताकीर्तिरक्षार्थं च, किं त्वमरुशतकप्रणयनं शृङ्गारव्यसनितयैवेत्यप्यङ्गी-
कार्यमिति महती विडम्बना यतिवरस्य. तस्मादस्य शतकस्य प्रणेतामरुककविः कश्चिदन्य
एव. स च कदा कुत्र समुत्पन्न इति न ज्ञायते, किं तु ध्वन्यालोकस्य तृतीयोद्द्योते ‘मु-