This page has been fully proofread once and needs a second look.

[^१]नीत्वोच्चैर्विक्षिपन्तः कृततुहिनकणासारसङ्गान्परागा-
ना[^२]मोदानन्दितालीनतितरसुरभीन्भूरिशो दिङ्मुखेषु ।
एते ते कुङ्कुमाङ्कस्तनकलशभरास्फालनादुच्छलन्तः
पीत्वा सीत्कारिवक्त्रं हरिणशिशुदृशां हैमना वान्ति वाताः ॥ ११९ ॥
 
एते ते प्रसिद्धा हेमन्तसंबन्धिनो वाता वहन्ति । मृगाक्षीणां सीत्कारयुक्तं मुखं
स्पृष्ट्वा । किं कुर्वन्तः । कुङ्कुमलेपयुक्तस्तनकलशताडनादूर्ध्वं गच्छन्तः । पुनः किं कु-
र्वन्तः । अनेकान्परागानुच्चैर्नीत्वा दिशामुखेषु निक्षिपन्तः । जनिततुषारकणवृष्टिभ्रमान् ।
पुनः कथंभूतान् । परिमलतोषितभ्रमरान् अतिशयसुगन्धान् ॥
 
पीतस्तुषारकिरणो मधुनैव सार्ध-
मन्तः प्रविश्य चषकप्रतिबिम्बवर्ती ।
ना[^३]नाकरं मनसि मानवतीजनस्य
नूनं बिभेद यदसौ प्रससाद सद्यः ॥ १२० ॥
 
कविरुत्प्रेक्षते — निश्चयेनायं चन्द्रो मधुपात्रे प्रतिबिम्बितः सन्मद्येनैव सह पीतः
सन्मानिनीसमूहस्य चित्तेऽन्तः प्रविश्य मानोत्पत्तिस्थानं चूर्णयामास । कथमेतज्ज्ञा-
यते — यदसौ मानिनीलोकस्तत्क्षणान्मानरहितो बभूव ॥
 
ललनालोलधम्मिल्लमल्लिकामोदवासिताः ।
वान्ति रात्रौ रतक्लान्तकामिनीसुहृदोऽनिलाः ॥ १२१ ॥
 
एवंविधा वायवो रात्रौ ग्रीष्मे वहन्ति । कथंभूताः । अङ्गनाचपलकेशपाशमल्लिकाप-
रिमलसुगन्धयः संभोगखिन्नकामिनीप्रियाः ॥
 
वान्ति कह्लारसुभगाः सप्तच्छदसुगन्धयः ।
वाता नवर[^४]तिम्लानवधूसंगममन्थराः ॥ १२२ ॥
 
शरत्काले एवंविधा वाता वहन्ति । कीदृशः । सौगन्धिकमनोज्ञाः विषमच्छदसुर-
भयः । नवसंभोगखिन्नकामिनीसुखोत्पादनमन्मदाः ॥
 
रामाणां रमणीयवक्त्रशशिनः स्वेदोदबिन्दुप्लुतो
व्यालोलामलकावलीं प्रचलयंश्चुम्बन्नित[^५]म्बांशुकम् ।
 
[^१.] "क्षिप्त्वोच्चैः" इति पाठः. [^२.] "कौन्दानानन्दितालीनतिशय" इति पाठः. [^३.] "मा-
नान्धकारमपि" इति पाठः. [^४.] "रतग्लानवधूगमन" इति पाठः [^५.] "नितम्बाम्बरम्"
इति पाठः.