This page has been fully proofread once and needs a second look.

थ्यते । न्यवर्तत मन्मथ इत्यनेन पुनः सुरतारम्भो गम्यते । यथा लोके शूरः पुरुषः परा-
न्निर्जित्य गलितसंनाहः प्रयातः सन्पश्चात्परैरभिभूतानां स्वकीयानामार्तनादं श्रुत्वा तत्प्र-
शमनाय पुनर्निवर्तते तद्वदयमपीत्यभिप्रायः । अत्र व्रीडा नाम संचारी भावः । नायिका
स्वीया मध्या स्वाधीनपतिका च । नायकोऽनुकूलः । संभोगशृङ्गारः । चेष्टाकृतं सहासं
शृङ्गारिनर्म। हेतुरलंकारः । हरिणी वृत्तम् ॥
 
कवेर्वाक्यम् —
 
सालक्तकेन नवपल्लवकोमलेन
पादेन नूपुरवता मदनालसेन ।
यस्ताड्यते दयितया प्रणयापराधा-
त्सोऽङ्गीकृतो भगवता मकरध्वजेन ॥ ११६ ॥
 
स्पष्टोऽर्थः । अत्र दयितया पादेन ताडितोऽपि भगवता मकरध्वजेन सोऽङ्गीकृत
इत्यनेन नानाविधैरुपचारैरुपलालितः किमुतेत्ययमर्थः सूचितः । एतावता कामपुरुषार्थ-
स्योपादेयत्वमुक्तं भवति ॥
 
<bold>२ परिशिष्टम् ।</bold>
 
रुद्रमदेवकुमारप्रणीतटीकायां केचनाधिकाः श्लोकाः । यथा —
 
प्रयच्छाहारं मे यदि तब रहोवृत्तमखिलं
मया वाच्यं वोच्चैरिति गृहशुके जल्पति शनैः ।
वधूर्वक्त्रं व्रीडाभरनमितमन्तर्विहसितं
हरत्यर्धोन्मीलन्नलिनमनिलावर्जितमिव ॥ ११७ ॥
 
काचन नायिका गृहशुके शनैर्मन्दमिति वदति सति मुखं वक्रं करोति । कथं
जल्पति । हे नायिके, मह्यमाहारं देहि यदि न दास्यसि तदा तवैकान्तवृत्तान्तं समस्तं
मयोच्चैः कथनीयम् । कीदृशं मुखम् । लज्जातिशयनम्रम् । गुप्तहसितम् । इदानीमुत्प्रे-
क्षते — अर्धविकसत्पद्मं वायुवक्रीकृतमिव ॥
 
किंचिन्मुद्रितपांसवः शिखिगणैरुत्पक्ष(रूर्ध्वाक्ष)मालोकिता
जीर्णावासरुदद्दरिद्रगृहिणीश्वासानिलैर्जर्जराः ।
एते ते निपतन्ति नूतनघनात्प्रावृड्भरानन्दिनो
विच्छायीकृतविप्रयुक्तवनिता वक्त्रेन्दवो बिन्दवः ॥ ११८ ॥
 
त एते नूतनघनाज्जलबिन्दवः पतन्ति । कथंभूताः । किंचिन्निषिद्धरेणवः । मयूरवृन्दै-
रूर्ध्वनयनं यथा स्यादेवं दृष्टाः । पुराणभवनदरिद्रकान्तानिःश्वासमारुतैरनेकधा कृताः ।
वर्षागमहर्षिणः । मलिनीकृतवियोगिवनिता वक्त्रचन्द्राः ॥