This page has been fully proofread once and needs a second look.

यथोक्तम् — "भूगतस्तनभुजास्यमस्तकामुन्नतस्फिजमधोमुखीं स्त्रियम् । कामति स्वकर-
कृष्टमेहने वल्लभे करिपदं तदुच्यते ॥" इति । क्वचिच्चूर्णोद्गारीत्यनेन धेनुकं नाम करणं
सूच्यते । यथोक्तम् — "न्यस्तहस्तयुगला भुवस्तले योषिदेति कटिरूढवल्लभा । अग्रतो
यदि शनैरधोमुखी धेनुकं वृषवदुन्नते प्रिये ॥" इति । क्वचिदपि च सालक्तकपद इत्यनेन
पुरुषायितं सूच्यते । तत्स्पष्टमेव । वलीभङ्गाभोगैरित्यनेनालकपतितैः शीर्णकुसुमैरित्यनेन
च रत्युपमर्दातिशयः सूच्यते । जातिरलंकारः । शिखरिणीवृत्तम् ॥
 
कवेर्वाक्यम् —
 
पुष्पोद्भेदमवाप्य केलिशयनाद्दूरस्थया चुम्बने
कान्तेन स्फुरिताधरेण निभृतं भ्रूसंज्ञया याचिते ।
आच्छाद्य स्मितपूर्णगण्डफलकं चेलाञ्चलेनाननं
मन्दान्दोलितकुण्डलस्तबकया तन्व्यावधूतं शिरः ॥ १०८ ॥
 
पुष्पोद्भेदं रजःप्रादुर्भावमवाप्य प्राप्य केलिशयनाद्दूरस्थया क्रीडातल्पं विहाय विप्र-
कृष्टया । ल्यब्लोपे पञ्चमी । स्फुरिताधरेण स्पन्दिताधरेण कान्तेन प्रियेण भ्रूसंज्ञया
साधनेन निभृतं निगूढं चुम्बने याचिते प्रार्थिते सति स्मितपूर्णगण्डफलकं मन्दहासभ-
रितकपोलतलमाननं चेलाञ्चलेनांशुकपल्लवेनाच्छाद्य पिधाय मन्दान्दोलितकुण्डलस्त-
बकया मन्दं शनैरान्दोलिते आलोलिते कुण्डले कर्णवेष्टने एव स्तबकौ गुच्छौ यस्याः सा
तथोक्ता तया तन्व्या कान्तया शिरोऽवधूतं तिर्यग्वक्रितमिति संबन्धः । शिरोऽवधूत-
मित्यनेन प्रतिषेधः सूचितः । औत्सुक्यं नाम संचारी भावः । नायिका स्वीया
मध्याप्रगल्भयोरन्यतरा स्वाधीनपतिका च । नायकोऽनुकूलः । संभोगशृङ्गारः ।
अत्र चेष्टाकृतं संभोगेच्छारूपं शृङ्गारिनर्म। सूक्ष्मोऽलंकारः । यथोक्तं काव्यादर्शे —
"इङ्गिताकारलक्ष्यार्थसौक्ष्म्यात्सूक्ष्म इति स्मृतः" इति । शार्दूलविक्रीडितम् ॥
 
नायिका नायकमुपालभते —
 
शठान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा
यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः ।
तदेतत्क्वाचक्षे घृतमधुमयत्वद्बहुवचो-
विषेणाघूर्णन्ती किमपि न सखी मे गणयति ॥ १०९ ॥
 
हे शठ धूर्त, अन्यस्या इतरनायिकायाः काञ्चीमणिरणितं मेखलारत्नशिक्षितमाकर्ण्या-
श्लिष्यन्नेवालिङ्गन्नेव सहसा शीघ्रं प्रशिथिलभुजग्रन्थिर्विश्लथबाहुबन्धनोऽभव आसीरिति
यत्तदेतच्छाठ्यं क्वाचक्षे कुत्र ब्रवीमि । यतो घृतमधुमयत्वद्हुवचोविषेण घृतमधुमयं
सर्पिःक्षौद्ररूपं त्वद्बहुवचस्तव भूरिवचनं घृतमधुमयं च तत्त्वद्बहुवचश्च तदेव विषं तेना-
घूर्णन्ती भ्राम्यन्ती मे सखी किमपि न गणयति न विचारयति । न विश्वसितीत्यर्थः ।