This page has been fully proofread once and needs a second look.

कवेर्वाक्यम् —
 
स्मररसनदीपूरेणोढाः पुनर्गुरुसेतुभि-
र्यदपि विधृतास्तिष्ठन्त्यारादपूर्णमनोरथाः ।
तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा •
नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥ १०४ ॥
 
प्रियाः । "पुमान्स्त्रिया" इत्येकशेषः । प्रियश्च प्रियाश्चेत्यर्थः । स्मररसनदीपूरेणोढाः
स्मरेण कामेन कृतो रसो रागः स एव नदीपूरस्तेनोढा उद्धृताः । बलान्नीता इत्यर्थः । पुन-
र्भूयो गुरुसेतुभिर्गुरवो गुरुजनास्त एव सेतवः प्रवाहबन्धास्तैर्यद्यस्मात्कारणाद्विधृता अपि
निवारिताश्च भवन्ति । तस्मादारात्समीपेऽपूर्णमनोरथा अपर्याप्तकामास्तिष्ठन्ति आसते ।
तदापि तथापि लिखितप्रख्यैश्चित्रसदृशैरङ्गैः शरीरैरुपलक्षिताः परस्परमन्योन्यमुन्मुखा
अभिमुखाः सन्तो नयननलिनीनालानीतं नयनानि दर्शनान्येव नलिनीनालानि पद्मका-
ण्डानि तैरानीतमाहृतं रसं पिबन्ति आस्वादयन्तीति संबन्धः । अत्र स्मररसनदीपूरे-
णोढा इत्यनेनात्यन्ताभिलाषपरतन्त्रा इति गम्यते । लिखितप्रख्यैरङ्गैरित्यनेन स्तम्भं
नाम सात्त्विकभावं गता इति गम्यते । अत्रौत्सुक्यं नाम संचारी भावः । संभोगशृङ्गारः ।
यथोक्तं दशरूपके — "अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स
संभोग उदाहृतः ॥" इति । अत्र चेष्टाकृतं संभोगेच्छारूपं शृङ्गारिनर्म <error>जातिलंकारः ।</error><fix>जातिरलङ्कारः ।</fix>
हरिणीवृत्तम् ॥
 
नायकमानेतुं गत्वा समागतां लक्ष्यमाणसंभोगचिह्नां दूतीं नायिका प्राह —
 
निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ १०५ ॥
 
स्तनतटं कुचतटं निःशेषच्युतचन्दनं निःशेषं यथा भवति तथा च्युतं गलितं चन्दनं
यस्मात्तथोक्तम् । अधरो दशनच्छदो निर्मृष्टरागोऽपगतालक्तकोऽपगतताम्बूलरागो वा ।
नेत्रे दूरमत्यर्थमञ्जने कज्जलरहिते । तन्वी तवेयं तनुः पुलकिता सरोमाञ्चा मिथ्यावा-
दिन्यसत्यप्रलापिनि बान्धवजनस्य सुहृज्जनस्याज्ञातपीडागमे । अज्ञातोऽनवगतः पीडागमो
दुःखप्राप्तिर्यया सा तथोक्ता तस्याः संबुद्धिः । अज्ञातबान्धवजनपीडागमे इत्यर्थः । हे
दृति संदेशहरे, अतोऽस्मात्प्रदेशाद्वापीं दीर्घिकां स्नातुं जलावगाहनं कर्तुं गतासि
यातासि तस्याधमस्य निकृष्टस्य नायकस्यान्तिकं पुनः समीपं तु न गतासीति संबन्धः ।
अत्र वापीस्नानचिह्नकथनव्याजेन संभोगचिह्नकथनान्नायकस्याधमत्वकथनाच्च तदन्तिक-
मेव रन्तुं गतासीत्ययमर्थो व्यज्यते । अत्र नायिका स्वीया प्रगल्भा च । नायकः शठः ।