2022-10-17 10:05:05 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
हंहो चेतः प्रकृतिरपरा नास्ति मे कापि सा सा
सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥ १०२ ॥
तद्विरहातुरस्य ममान्या कापि प्रकृतिर्नास्ति । तर्हि किमस्तीयाह — प्रासादादिषु
सैव । तस्मादहो आश्चर्यम् । सा सेति सकले जगति कोऽयमद्वैतवादः । आत्मनोऽप्य-
लेखितत्वेन तस्यां तादात्म्यम् । विशेषोऽलंकारः । यदुक्तम् — "यत्रैकमनेकस्मिन्नाधारे
वस्तु विद्यमानतया । युगपदभिधीयतेऽसावत्रान्यः स्याद्विशेष इति ॥" यथा — "हृदये
चक्षुषि वाचि च तव सैवाभिनवयौवना वसति । वयमत्र निरवकाशा विरम कृतं
पादपतनेन ॥" पूर्वार्धे यावन्त एव साशब्दाः प्रयुक्तास्तावन्त एवोत्तरार्धेऽनूदिताः ॥
समाप्तेयं रसिकसंजीविनी टीका ।
कृतिर्महाराजाधिराजवीरचूडामणिश्रीमदर्जुनवर्मदेवस्य ।
समाप्तमिदं रसिकसंजीविनीटीकासमेतममरुशतकम् ।
——————————
१ परिशिष्टम् ।
वेमभूपालविरचितशृङ्गारदीपिकाख्यटीकायां केचन श्लोका अधिकाः सन्ति, तेऽत्र
सटीकास्तत एवोद्ध्रियन्ते । यथा —
नायकोक्तिः —
नभसि जलदलक्ष्मीं सास्रया वीक्ष्य दृष्ट्या
प्रवससि यदि कान्तेत्यर्धमुक्त्वा कथंचित् ।
मम पटमवलम्ब्य प्रोल्लिखन्ती धरित्रीं
यदनु कृतवती सा तत्र वाचो निवृत्ताः ॥ १०३ ॥
नभस्याकाशे जलदलक्ष्मीं मेघसामग्रीं सास्रया सबाष्पया दृष्ट्या दृशा वीक्ष्याव-
लोक्य "हे कान्त हे प्रिय, प्रवससि यदि प्रवासं करोषि चेत्" इति कथंचित्कृच्छ्रेणार्धं
सावशेषम् । वाक्यमिति शेषः । उक्त्वा मम पटमंशुकमवलम्ब्य गृहीत्वा धरित्रीं भुवं
प्रोल्लिखन्ती कर्षन्ती अनु पश्चात्सा यत्कर्म कृतवती तत्र तस्मिन्कर्मणि वाच उक्तयो
निवृत्ता व्यावृत्ता इति संबन्धः । यत्कृतवतीत्यत्र यच्छब्दवाच्यैश्चिन्तानिःश्वासवैवर्ण्य -
बाष्पगद्गदिकादिभिरनुभावैस्त्वां विना क्षणमपि जीवितुमहं न शक्नोमीत्ययमर्थः प्रवससि
यदीत्यस्य वाक्यस्य शेषत्वेनावगन्तव्यः । तत्र वाचो निवृत्ता इत्यनेन नायिकायाश्चिन्ता-
निःश्वासादीनामनुभावानां दशाविशेषः पश्यतां मनोगोचर एव न वाग्गोचर इत्ययमर्थो-
ऽवगम्यते । दैन्यं नाम संचारिभावः । अत्र नायिका स्वीया मुग्धा च । नायकोऽनुकूलः ।
भविष्यत्प्रवासविप्रलम्भशृङ्गारः । तत्र नर्मस्फोटः । जातिरलंकारः । मालिनी वृत्तम् ॥