This page has been fully proofread once and needs a second look.

काचित्सखीभिर्मानं शिक्षितानध्यवसायगर्भं संदेहमाह —
 
भ्रूभेदो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं
रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः ।
धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथंचिन्मया
बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ॥ ९७ ॥
 
मानस्वीकारे मया सामग्री प्रगुणीकृता सिद्धिः पुनर्दैवाधीना । दैवयोगान्माननि-
र्वाहो भवति न वेत्यर्थः । कथं परिकरो बद्ध इत्याह — भ्रूभेद <error> इत्यापि</error><fix> इत्यादि </fix> । सूत्रपाठप्राथमक-
ल्पिकन्यायेन भ्रूभङ्गश्चिरं गुणितः । लोचनयोः संकोचनमभ्यस्तम् । प्रयत्नेन स्मितं
निवारयितुं शिक्षितम् । वाचंयमत्वेऽभियोगः कृतः । अकातरतां विधातुमपि कथंचिदे-
तच्चेतः स्थिरीकृतम् । एते प्रकारास्तस्मिन्दृष्टे निर्वाहं न गमिष्यन्तीत्यर्थः ॥
 
काचित्स्वैरिणी चिरमनोरथप्राप्तकामुकचौर्यरतं साधितसाध्यतया सख्याः कथयति —
 
अहं तेनाहूता किमपि कथयामीति विजने
समीपे चासीना सरसहृदयत्वादवहिता ।
ततः कर्णोपान्ते किमपि वदताघ्राय वदनं
गृ[^१]हीता धम्मिल्ले सखि स च मया गाढमधरे ॥ ९८ ॥
 
हे सखि, किमपि कथयामीति व्यपदेशेन विजने तेनाहमाहूता । अहं च सखि,
साभिलाषहृदया तस्य प्रियतमस्य समीप आसीना । अथ च तेन श्रवणोपान्ते किंचिद्वदता
पर्याकुलतया मन्मुखमाघ्रायापसरणशङ्कयाहं धम्मिल्ले गृहीता । न केवलमेवम्, स च
मया गाढमधरे गृहीतः । किमपि कथयामीति विस्रम्भणम् । यदुक्तम् — "विविक्ते च
किंचिदस्ति कथयितव्यमित्युक्त्वा निर्वचने भावं तत्रोपलक्षयेत्" ॥
 
देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननै-
र्यनेनापि न याति लोचनपथं कान्तेति जानन्नपि ।
उद्ग्रीवश्च[^२]रणांर्धरुद्धवसुधः प्रोन्मृज्य सास्रे दृशौ
तामाशां पथिकस्त[^३]थापि किमपि ध्यायन्पु[^४]नर्वीक्षते ॥ ९९ ॥
 
तथापि किमपि ध्यायन्पथिकस्तां दयितासंबद्धां दिशं वारंवारमवलोकयति । अथ
वाशामिवाशाम् । किं कृत्वा । साश्रुणी नेत्रे पदार्थोपलम्भार्थं प्रकर्षात्प्रोञ्छ्य । किंवि-
शिष्टः । दर्शनोत्कलिकयोत्कंधरः । पुनः कीदृशः । उन्नतो भवितुं परार्धेनावष्टब्धभूमिः ।
 
[^१.] "गृहीत्वा धम्मिल्ले मम सखि निपीतोऽधररसः" इति शृङ्गारदीपिका. [^२.] "चर-
णाग्र" इति शृङ्गारदीपिका. [^३.] "तथैव" इति शृङ्गारदीपिका. [^४.] "मुहुः" इति शृङ्गार-
दीपिका.