2022-10-17 09:30:33 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
जातः । एतेनातः प्राग्यैवाहं स एवासीदित्यर्थः । तस्मात्त्वमपि सागसि प्रिये खेदं मा कृथाः ।
स एव कः येन पुरा मम चित्तपदवी चिरकालमेवमनुसृता । येन येन वर्त्मना मम
चित्तं विलसितं तेन तेन पृष्ठतो लग्नः । सर्ववारानुवृत्तिपर आसीदित्यर्थः । एवं कथ-
मित्याह
– — हे प्रियतम, इदं कृष्णम् । स आह -— कृष्णम् । ननु श्वेतमिदम् । स आह -—
अथ किम् । गमिष्यामः । स आह-— यामः । नायिकाभविष्यदुक्तौ नायकस्य वर्तमानो-
क्ल्त्यानुवृत्तेरतिशयः । आस्तां गमनेन । स आह -— आस्ताम् ॥
काचिदन्तर्विलीनमाना स्वगतेन वितर्ककं संधारयति -—
चरणपतनंसंस[^१]ख्यालापा मनोहरचाटवः
कृशतरतनोर्गाढा श्लेषो हठात्परिचुम्बनम् ।
इ[^२]ति हि चपलो मानारम्भस्तथापि हि[^३] नोत्सहे
हृदयदयितः कान्तः कामं किमत्र करोम्यहम् ॥ ९५ ॥
इत्यमुना प्रकारेण नूनं गत्लवर एव मानोपक्रमः । तथापि स्फुटमीर्ष्यया न मानं त्यक्तु-
मुत्सहे । इतिशब्दस्यापि शब्दस्याग्रे च हिशब्दो मानारम्भचापल्यस्य मानत्यागानुत्साहस्य
च निश्चयं गमयति । इति किम् । चरणपतनेत्यादि । प्रियस्य मच्चरणे पतनम् । तदनुरुद्ध-
सखीनामालापाः । किंविशिष्टाः । मनोहराणि चाटूननि येषु ते तथोक्ताः । मदीयदुर्बला-
ङ्गस्य प्रियकृतं गाढा लिङ्गनम् । बलात्कारेण समन्ताच्चुम्बनम् । कृशतरतनोरित्यस्य पद-
स्यायमभिप्रायः-
:- — मया तावन्मानः कृतो यावत्क्षीणेन्दुलेखाशेषं मम शरीरमभूत् । ननु
यदि नोत्सहे तदा प्रियेण विनैव स्थास्यामीत्याह
— अतिशयेन हृदयदयितः कान्तश्च
तत्किमत्र प्रस्तावे करोमीति । चिन्ता व्यभिचारिभावः ॥
तन्वनङ्ग्या गुरुसंनिधौ नयनयोर्यद्वारि संस्तम्भितं
तेनान्तर्गलितेन मन्मथशिखी सिक्तो वियोगोद्भवः ।
मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता
श्वासायाससमाकुलालिसरणिव्याजेन धूमावली ॥ ९६ ॥
इयं बाल्य एव प्रियं विना स्थातुं न शक्नोतीति गुरुजनेन ज्ञास्य इति लज्जया तत्सं-
<error>नीधौ</error><fix>निधौ </fix> नयनयोर्वारि स्तम्भितम् । तेनाभ्यन्तर एव व्यावृत्त्य गलितेन यो हृदये विरहो-
द्भवः कामानलः सिक्तस्तस्य संस्तभ्यमानज्वालस्य नूनमेषा वदनद्वारेण धूमवर्तिरु-
त्थिता । केन । सुगन्धिश्वासेन य उष्णताजनित आयासस्तेन समाकुलानामलीनां या
पद्धतिस्तद्व्याजेन । जलाभिषेकेण मन्दितार्चिषि वैश्वानरे हि धूमोद्गमः समुल्लसति ॥
[^१. '] "साखास्रालापाः'" इति शृङ्गारदीपिका. [^२. '] "इति बहुफलो'" इति शृङ्गारदीपिका.
[^३. '] "च'" इति शृङ्गारदीपिका.
स एव कः येन पुरा मम चित्तपदवी चिरकालमेवमनुसृता । येन येन वर्त्मना मम
चित्तं विलसितं तेन तेन पृष्ठतो लग्नः । सर्ववारानुवृत्तिपर आसीदित्यर्थः । एवं कथ-
मित्याह
–
अथ किम् । गमिष्यामः । स आह
क्
काचिदन्तर्विलीनमाना स्वगतेन वितर्
चरणपतनं
कृशतरतनोर्गाढा
इ[^२]ति हि चपलो मानारम्भस्तथापि हि[^३] नोत्सहे
हृदयदयितः कान्तः कामं किमत्र करोम्यहम् ॥ ९५ ॥
इत्यमुना प्रकारेण नूनं गत्
मुत्सहे । इतिशब्दस्यापि शब्दस्याग्रे च हिशब्दो मानारम्भचापल्यस्य मानत्यागानुत्साहस्य
च निश्चयं गमयति । इति किम् । चरणपतनेत्यादि । प्रियस्य मच्चरणे पतनम् । तदनुरुद्ध-
सखीनामालापाः । किंविशिष्टाः । मनोहराणि चाटू
ङ्गस्य प्रियकृतं गाढा
स्यायमभिप्रायः
:-
यदि नोत्सहे तदा प्रियेण विनैव स्थास्यामीत्याह
तत्किमत्र प्रस्तावे करोमीति । चिन्ता व्यभिचारिभावः ॥
तन्व

[^१.
[^३.