2022-10-17 07:03:59 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
हे सख्यः, कं स्वार्थमनुसंधाय दयिते वयं मानं कारिताः । वयमिति बहुवचनेन
सखीष्वौदासीन्यम् । अनर्थ एव को जात इत्याह — निःश्वासा इत्यादि । अनन्तदुःखसं-
बाधत्वेन संततमुल्लसन्तो निःश्वासवायवो मुखमुष्णतया तपन्ति । निराधारतया हृदयं
निर्मूलमुन्मथ्यते । कर्मकर्तरि यक् । चिन्ताज्वरेण निद्रा नागच्छति । संतापशमनं
चन्द्ररुचिरं प्रियमुखं न दृश्यते । तद्दर्शनमन्तरेण चक्षुषोः साश्रुत्वादहोरात्रं रुद्यते ।
सरस्त्याजितायाः कमलिन्या इवाङ्गं मे शुष्यति । तदा पादपतितोऽपि युष्मद्भणितेन
प्रेयानवगणितः । विषमालंकारः । यदुक्तम् —"यत्र क्रियाविपत्तेर्न भवेदेव क्रियाफलं
तावत् । कर्तुरनर्थश्च भवेत्तदपरमभिधीयते विषमम्" ॥
काचिन्मानिनी पुण्यसामग्र्या मनोरथशतप्राप्तप्रियतमसंप्रतिपत्तिः पुनर्विप्रतिपत्तिवि-
षये स्वगतेन शपथं करोति —
अद्यारभ्य य[^१]दि प्रिये पुनरहं मानस्य वान्यस्य वा
गृह्णीयां शठदुर्नयेन मनसा नामापि संक्षेपतः ।
त[^२]त्तेनैव विना शशाङ्कध[^३]वलाः स्पष्टाट्टहासा निशा
ए[^४]को वा दिवसः पयोदमलिनो यायान्मम प्रावृषि ॥ ९३ ॥
यद्यहमद्यारभ्य मानस्यान्यस्य वापि परिचरणप्रसादादेर्नामापि गृह्णीयाम् । अस्तु
तावत्करणम् । केन । मनसा । कीदृशेन । शठदुर्नयेन । कोऽर्थः । मिथ्यैवास्य दोषमारोपया-
मीति । तदा किं स्यादित्यत आह — संक्षेपत इत्यादि । संदिग्धमरणानेकप्रतिज्ञानां प-
रिहारेण निःसंदेहमरणाध्यवसायतया संक्षेपतस्तेनैव प्रियेण विना सुधांशुधवला अत एव
स्पष्टाहासा इव यामिन्यो मे यान्तु । दुःखितस्य हि हसन्कोऽपि न प्रतिभासते । अत
एव प्रावृट्काले समन्ततः संनद्धमेघमालामलीमस एकोऽपि दिवसो यायात् । एकसं-
ख्याविशेषेण चन्द्रवत्यनेकरात्रिभ्योऽपि प्रावृड्दिवसस्यातिवाहयितुमशक्यत्वमुक्तम् ॥
काचित्सखी नूतनमानिनीमात्मप्रियदुर्नयावेदनेन बोधयति —
इदं कृष्णं कृष्णं प्रियतम ननु श्वेतमथ किं
गमिष्यामो यामो भवतु गमनेनाथ भवतु ।
पुरा येनैवं मे चिरमनुसृता चित्तपदवी
स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ॥ ९४ ॥
हे सखि, कस्य परिचिताः पुरुषाः । अपि तु न कस्यापि । आत्मीया न भवन्ती-
त्यर्थः । अथातिनिर्बन्धमानेनोद्वेजितैस्तैः सह परिचयोऽपि दुर्लभः । यतः स एवान्यो
[^१.] "नहि प्रिये पुनरहं मानस्य वा भाजनं गृह्णीयां विषरूपिणः शठमतेर्नामापि" इति
शृङ्गारदीपिका. [^२.] "किं तेनैव" इति शृङ्गारदीपिका. [^३.] "किरणस्पष्टा-" इति शृङ्गा-
रदीपिका. [^४.] "नैकोऽपि" इति शृङ्गारदीपिका.