This page has been fully proofread once and needs a second look.

स्थगयति मुहुः पत्युर्नेत्रे विहस्य समाकुला
सुरतविरतौ र[^१]म्या तन्वी मुहुर्मुहुरीक्षते ॥ ९० ॥
 
संभोगावसाने क्षामाङ्गी रमणीया पतिं वारंवारमवलोकते । अत एव साकूतं विहस्य
लज्जया संभ्रान्ता भर्तुर्नेत्रे भूयोभूयः समाच्छादयति । रम्यैव कथमित्याह — इतस्ततः
पतिते वाससी पाणिपल्लवं भ्रमयित्वा परिधानार्थं मृगयति । प्रदीपविध्यापनार्थं सुरतसं-
मर्दत्रुटितधम्मिल्लकुसुममालाशेषं क्षिपति । प्रियनयनस्थगनं च घट्टितकचुम्बनेऽप्युक्त-
मस्ति मुग्धायाः — "ईषत्परिगृह्य मीलिताक्षी जिह्वाग्रेण घट्टयन्ती करेण तस्य नयने छा-
दयतीति घट्टितकम्" । "मन्मथाप्यायिता छाया सैव कान्तिरिति स्मृता" इत्यनेन का-
न्तिर्नाट्यालंकारः । यथा भट्टनारायणस्य — "उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनै-
केन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः । भूयस्तत्कालकान्ति-
द्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः
पुनातु" ॥
 
काचित्सखी मानिनीं भीषयित्वा नायकसंप्रतिपत्तौ प्रवेशयति —
 
सन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुना
प्रेयांसः प्रणमन्ति किं तव पुनर्दासो यथा वर्तते ।
आत्मद्रोहिणि दु[^२]र्जनैः प्रलपितं कर्णेऽनिशं मा कृथा-
श्छिन्नस्नेहरसा भवन्ति पुरुषा दुः[^३]खानुवर्त्याः पुनः ॥ ९१ ॥
 
सन्त्येवात्र गृहे गृहे यौवनोद्धताः स्त्रियः । ताः पृच्छ गत्वा । कदा । अधुना । वि-
लम्बं मा कृथा इत्यर्थः । किं पृच्छामीत्याह — प्रेयांसः किं तथा प्रणमन्ति यथा तव
प्रेयान्दासवत्प्रणमंश्च वर्तते । प्रेयांसो हि प्रणम्यन्ते । तस्मात् हे आत्मद्रोहिणि, दुर्जनै-
रनर्थमभिहितं कर्णेऽप्यनिशं मा कृथाः का पुनः कथा हृदये । कर्णेजपवचनैर्हि प्रियो-
ऽपमानितः सन्कदाचित्स्नेहमुत्सृजति । निःस्नेहे तस्मिन्सति किं भवतीत्याह — छिन्नस्ने-
हरसाः पुरुषाः पुनर्दुःखानुवर्त्या भवन्ति दुःखेनानुवर्तितुं शक्यन्ते । दुराराध्या इत्यर्थः ॥
 
काचिन्मानशिक्षणनिर्बन्धदुर्ललिताः सखीरुपालभते —
 
निःश्वासा वदनं दहन्ति हृदयं निर्मूलमु[^४]न्मथ्यते
निद्रा नैति न दृश्यते प्रियमुखं नक्तंदिवं रुद्यते ।
अङ्गं शोषमुपैति पादपतितः प्रेयांस्त[^५]दोपेक्षितः
सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥ ९२ ॥
 
[^१.] "रम्यं तन्वी पुनः पुनरीक्षते" इति शृङ्गारदीपिका. [^२.] "दुर्जनप्रलपितं कर्णे भृशं"
इति शृङ्गारदीपिका. [^३.] "दुःखानुवृत्त्या यतः" इति शृङ्गारदीपिका. [^४.] "उन्मूल्यते" इति
शृङ्गारदीपिका. [^५.] "तथा" इति शृङ्गारदीपिका.