This page has been fully proofread once and needs a second look.

मन्मार्गवीक्षणनिवेशितदीनदृष्टे-
र्नूनं छमच्छमिति बाष्पकर्णाः पतन्ति ॥ ८६ ॥
 
नूनमहमेवं मन्ये — दयिताया हृदि च्छमच्छमित्यश्रुविप्रुषः पतन्ति । किंविशि-
ष्टायाः । मदागमनपदवीगवेषणदत्तदीनदृष्टेः । किंविशिष्टे हृदये । महतीभिर्वियोगानल-
ज्वालाभिस्तप्ते । पुनः कीदृशे । आपाण्डुरस्तनतटे । संतप्तवस्तुनि पतितं पयश्छमत्करो-
तीत्यनुकारः । रूपकमलंकारः । यदुक्तम् — "यत्र गुणानां साम्ये सत्युपमानोपमेययोर-
भिधा । अविवक्षितसामान्या कल्प्यत इति रूपकं ज्ञेयम् ॥" परं गृहीतमुक्तोऽलंकारः ॥
 
काचित्सखी मानिनीवृत्तान्तमपरसख्याः कथयति —
 
चिन्तामोह[^१]विनिश्चलेन मनसा मौनेन पादानतः
प्र[^२]त्याख्यानपराङ्मुखः प्रियतमो गन्तुं प्र[^३]वृत्तोऽधुना ।
सव्रीडैरलसैर्निरन्तरलुठद्बाष्पाकुलैरीक्षणैः
श्वा[^४]सोत्कम्पिकुचं निरीक्ष्य सुचिरं जीवाशया वारितः ॥ ८७ ॥
 
तया प्रियतमो निवारितः । किंविशिष्टः सन् । गन्तुं प्रवृत्तः । यतः प्रत्याख्यानेन
पराङ्मुखो निराकृत एव । किंविशिष्टः सन् । चरणानतः । केन विशिष्टः । विदितापरा-
धत्वान्मौनेन। पुनरपि केन । चेतसा । कथंभूतेन । प्रसादं करिष्यति न वेति चिन्तयान्तः-
करणशून्यत्वान्मोहेन च स्तिमितेन । विनिश्चलमिति भीरुत्वोक्तिः । कदा । अधुना ।
इदानीं यावत्प्रसादोपायांश्चकारेत्यर्थः । कया वारितः । जीविताशया । प्रत्याख्यानं ताव-
त्साहसेन कृतम् । गन्तुं प्रवृत्ते तस्मिन्प्राणान्धारयितुमशक्यत्वादनन्यगतिकत्वं जातमि-
त्यर्थः । अद्याहमेव त्वया विना जीवितुं न शक्नोमि, तदा किमेवं लघ्वी भवामीत्यभिधा-
नात् । श्वासेनोत्कम्पितौ कुचौ यत्र तत्तथोक्तम् । अथ च यद्यहं जीवामि तदा प्रियसं-
गमं प्राप्नोमीति जीवने कृता आशा जीवाशा । किं कृत्वा वारितः । सुचिरं निरीक्ष्य ।
कैः । ईक्षणैः । किंविशिष्टैः । अवष्टम्भत्यागव्यञ्जकतया सव्रीडैः । दैन्यद्योतकतयालसैः ।
अपमानातिशयान्निरन्तरलुठद्बाष्पाकुलैः ॥
 
कश्चिद्देशान्तरादागतो मनोरथप्राप्तप्रियतमासमागमं प्रणिधत्ते —
 
म्लानं पाण्डु कृशं वियोग[^५]विधुरं लम्बालकं सा[^६]लसं
भूयस्तत्क्षणजातकान्ति र[^७]भसप्राप्ते मयि प्रोषिते ।
 
[^१.] "मोहनिबध्यमानमनसा" इति शृङ्गारदीपिका. [^२.] "प्रत्याख्यात" इति शृङ्गार-
दीपिका. [^३.] "प्रवृत्तः शठः" इति शृङ्गारदीपिका. [^४.] "तन्वङ्ग्या स पुनस्तया तरलया
तत्रान्तरे वारितः" इति शृङ्गारदीपिका. [^५.] "विलास" इति शृङ्गारदीपिका. [^६.] "चा-
लसं" इति शृङ्गारदीपिका. [^७.] "मधुरं प्राप्ते" इति शृङ्गारदीपिका.