This page has been fully proofread once and needs a second look.

दृष्टेनैव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य मे
तत्केनात्र निरूप्यमाणनिपुणो मानः समाधीयताम् ॥ ८४ ॥
 
तस्मात्कथयत केनोपायेनात्र संस्थानके मानः स्थैर्यं नीयताम्, अपि तु न केनापि ।
कथंभूतः । निरूप्यमाणनिपुणः । निपुणं निरूप्यमाणो निरूप्यमाणनिपुणः । सुप्सुपेति
समासः । पूर्वनिपातानियमः । यतो यन्मानात्मकविरहातिवाहनक्षममिति संभावितमा-
सीत्तदद्य मे मनो दृष्टेनैव यावदमुना शठेन प्राणेश्वरेण सहसा लुण्ठितम् । किंविशिष्टेन ।
एतदसंगमे कथं जीविष्यामीति मे धृतितस्करेण । ( यदि पुनः संनिधावुपविश्य प्रणा-
मादिकमारभते तदा तस्य कथैव का । तच्चानेन कृतमेव न । कथं ज्ञायत इत्याह —
उत्कण्ठा न जाता । कुचौ न कम्पितौ । अङ्गं न पुलकितम् । मुखमपि स्वेदकणचितं न
जातम् । ) संनिधावुपविश्य यदि प्रणामादिकमारभते तदा सर्वमेव जातप्रायं भवती-
त्यर्थः । अहो नूतनोऽयं तस्करो यद्दृष्टिमात्र एव पदार्थमपहरतीत्याश्चर्यद्योतकं शठेनेति
प्रीतिवचनमेव ॥
 
दृष्टः कातरनेत्रया चिरतरं बद्ध्वाञ्जलिं याचितः
पश्चादंशुकप[^१]ल्लवेन विधृतो निर्व्याजमालिङ्गितः ।
इ[^२]त्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठः
पूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥ ८५ ॥
 
तदा प्रवसतो नायकस्य दयितया प्रथमं जीवितास्था मुक्ता तदनन्तरं दयितो मुक्तः ।
तदा कदा । यदेत्यादिकं सर्वममानयित्वा गन्तुमेव कितवः प्रवृत्तः । किंविशिष्टः । मुमू-
र्षुमपि वल्लभामुपेक्षत इति निर्घृणः । इत्यादिकं किमित्याह — स्थापनार्थे दैन्यव्यञ्जकत्वेन
कातरचक्षुषा चिरतरमवलोकितः । पश्चादञ्जलिं बद्ध्वा प्रार्थितः । अनन्तरं वस्त्राञ्चलेन
विधृतः । चरमं गाढमुपगूढः । गन्तुं प्रवृत्तो न तु गत एवेति हेतोरेकानुरागो न शङ्क-
नीयः । कर्तृदीपकमलंकारः । यदुक्तम् — "यत्रैकमनेकेषां वाक्यार्थानां क्रियापदं
भवति । तद्वत्कारकपदमपि तदेतदिति दीपकं द्वेधा ॥" अतिशयभेदः पूर्वं च । यदु-
क्तम् — "यत्रातिप्रबलतया विवक्ष्यते पूर्वमेव जन्यस्य । प्रादुर्भावः पश्चाज्जनकस्य तु तद्भ-
वेत्पूर्वम् ॥" यथा — "दुर्लभजनमभिलषतामादौ दंदह्यते मनो यूनाम् । गुरुरनिवारप्रसरः
पश्चात्कामानलो ज्वलति" ॥
 
कश्चिद्वियोगी दयितादुरवस्थामनुस्मरति —
 
तप्ते महाविरहवह्निशिखावलीभि-
रापाण्डुरस्तनतटे हृदये प्रियायाः ।
 
[^१.] "पल्लवे च" इति शृङ्गारदीपिका. [^२.] "इत्याक्षिप्य समस्तमेवमघृणो" इति शृङ्गा-
रदीपिका.