2022-10-17 06:02:47 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
मन्येऽवश्यमस्मिन्समये मुग्धा रोदिति । किंविशिष्टा । स्फुरणानुमेयो यः कण्ठध्वा-
नस्तस्य निरोधस्तेन कम्पितौ कुचौ येन तादृशः श्वासोद्गमो यस्याः सा तथोक्ता । किं
कृत्वा । निजां कृशां शरीरलतामुपरितनांशुकशकलेन पिधाय । पुनः किं कृत्वा । रसाल-
शाखिनि मञ्जरीमालम्ब्य । किंविशिष्टाम् । सर्पत्सान्द्रपरागो येषु । ते च रजस्यसंभवा-
योग्यतया मधुनि मधुलम्पटा मधुकराः प्रसरन्ति । घने कुसुमरजसि परिमललोभेन
लम्पटा रटन्तो ये भृङ्गास्तेषामङ्गनाश्च ताभिः शोभत इत्येवंशीला ताम् । चूतद्रुम एव
क इत्याह — यत्र मया सह क्रीडितं यत्रैव च पिष्टविकाराशन(?)द्यूतपणव्यतिकरे जयप-
राजयव्यवस्थया विलसितं तस्या अङ्गणवाटिकायाः प्रदेशे । स्वामित्यनेन विशेषध्वनिना
संप्रति तस्यास्तनुरेवेत्यर्थः । प्राणानां गतकल्पत्वात् । यः शाखादिकमवलम्ब्य तिष्ठति
तस्याङ्गमुद्घाटितं भवति । तथापि विकलतयोत्तरीयशकलेनाच्छाद्य न तु सावधानतया
समस्तेन । चूतद्रुमालम्बनपूर्वकं संस्थानमपि प्राणजिहासया दुष्करप्रायम् । मुकुलिता-
म्रदर्शनस्यापि विरहिणामशक्यत्वात् । यथा मालतीमाधवे — "धत्ते चक्षुर्मुकुलिनि
रणत्कोकिले बालचूते मार्गे गात्रं क्षिपति बकुलामोदगर्भस्य वायोः । दावप्रेम्णा सरस-
बिसिनीपत्त्रमात्रान्तरायस्ताम्यन्मूर्तिः श्रयति बहुशो मृत्यवे चन्द्रपादान् ॥" अङ्गनवा-
टिका च शृङ्गारिणां भवत्येव । यदुक्तम् — "तत्र भवनमासन्नोदकं वृक्षवाटिकासहितं
द्विवासगृहं कारयेत् ॥ [ अथ च मूलगृहद्वारि सहकारारोपणं सुप्रसिद्धम् । यदुक्तम् —
"किं द्वारि दैवहतिके सहकारकेण संवर्धितेन विषपादप एष पापः । अस्मिन्मनागपि
विकासविकारभाजि भीमा भवन्ति मदनज्वरसंनिपाताः ॥" इति ॥ ]
काचित्प्रोषितभर्तृकात्मानमधिक्षिपति —
यास्यामीति समुद्यतस्य गदितं विस्रब्धमाकर्णितं
गच्छन्दूरमुपेक्षितो मुहुरसौ व्यावृत्य तिष्ठन्नपि ।
तच्छून्ये पुनरास्थितास्मि भवने प्राणास्त एते दृढाः
सख्यस्तिष्ठत जीवितव्यसनिनी दम्भादहं रोदिमि ॥ ७९ ॥
हे सख्यः, स्वस्थावस्थया तिष्ठत मद्विषये नाधृतिः कार्या । यतोऽहं जीविताकाङ्क्षिणी
च्छद्मना रोदिमि । यदि च प्राणनिरपेक्षा भवामि रोदिम्येव न । किं च, दयितस्य
प्रवासार्थमुद्यतस्य यास्यामीति वचनं मया विस्रब्धं यथा भवत्येवमाकर्णितम् । गच्छन्स-
न्मदपेक्षया वारंवारमसौ व्यावृत्य तिष्ठन्नपि दूरं यावदुपेतः । तदैव किल जीवितत्यागा-
वसर आसीत् । तस्मादनेकसङ्ग्रामनिर्व्यूढास्मि । इदानीं पुनर्यस्मिन्नेव भवने तेन सह
विलसितं तस्मिन्नेषा वज्रमयी आस्थितास्मि । त एते चण्डालचरिताः प्राणा अपि
दृढा एव । अत्र चायमुक्तेरुल्लेखः — पूर्वार्धे यद्यहं यास्यामीति गदिते पर्याकुली भवामि
तदा च गच्छन्तं निवारयामि । यदि जीविताकाङ्क्षिणी भवामि । तस्माद्विस्रब्धचेष्टा
गमनोपेक्षिणी च किं न भवामि इति मे पूर्वं निश्चितमासीत् । इदानीं कस्मादपि दुर्दै-