2022-10-17 05:49:21 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
स्मिन्नेवान्तरे कदाचिदागतो मा भूदिति प्रत्याशया औत्सुक्याद्वेगविवर्तितकंधरं यथा
भवत्येवं पुनः पृष्ठतो विलोकितमिति तदेकतानेन प्रीतिप्रकर्षः । पथिष्विति बहुवचनेन
सर्वमार्गेषु प्रियस्यागमनपदवी निर्वर्णितेत्यर्थः । पान्थस्त्रियेत्येकवचनेन विरहहृद्रोगभेष-
जात्मकप्रबोधनवाक्यप्रस्तावनादिभिराश्वासदायिनी वयस्यापि तस्या नास्तीति भावः ।
तदेवं प्रवासात्मको विप्रलम्भोऽप्येष करुणप्राय एवेति मर्मणि स्पृशति । परमग्रेतनश्लो-
कस्यौचित्येन रसिकाः संजीवन्ति । "दूरदेशान्तरस्थे तु कार्यतः प्रोषिते प्रिये" इति
प्रोषितभर्तृका नायिका ।
आयाते दयिते मनोरथशतैर्नीत्वा कथंचिद्दिनं
वैद[^१]ग्ध्यापगमाज्जडे परिजने दीर्घां कथां कुर्वति ।
दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय ची[^२]नांशुकं
तन्वङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥ ७७ ॥
कृशाङ्ख्या रत्यर्थं कातरेण मनसा विशिष्टया प्रदीपो विध्यापितः (निर्वापितः) ।
किं कृत्वा । द्रुतपदं प्रदीपसमीपमेत्य चीनदेशोद्भवं वस्त्रं विशेषेणास्फाल्य । एतदेव किं
कृत्वा । इति मिथ्याभिधाय । इति किम् । दष्टास्मीति । वृश्चिकादिना हि दष्टो विशृङ्ख-
लवस्त्राञ्चलचरणविन्यासप्रक्रियोद्भ्रान्तो दीपविध्यापनभाण्डपातनादिकमवश्यं करोति ।
क्व सति । दयिते मनोरथशतैरायाते सति । पुनरपि किं कृत्वा दीपः शमितः । उभयत्र
संबन्धान्मनोरथशतैरेवमेवमुपालम्भपरिरम्भचुम्बनादिकं करिष्यामीति स्वरूपैर्महता क-
टेन दिनमतिवाह्य । ननु व्याजेन दीपमुपशमय्य किमिति रतिमाकाङ्क्षतीत्याह — वैदग्ध्ये-
त्यादि । इदानीं कीदृशोऽवसरः । कीदृशमत्रत्यानां चेतः । किमस्माभिः कर्तव्यमित्या-
दिवैदग्ध्याभावान्मूर्खे परिजने गृहदेशान्तराकथां दीर्घां कुर्वति । इयं च कथा संभोगा-
न्तरायत्वाद्विद्विष्टा । यदुक्तम् — "या गोष्ठी लोकविद्विष्टा या च स्वैरविसर्पिणी । परहिं-
सात्मिका या च न तामवगिरेद्बुधः ॥ नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया । कथां
गोष्ठीषु कथयंल्लोके बहुमतो भवेत् ॥ लोकचित्तानुवर्तिन्या क्रीडामात्रैककार्यया । गोष्ठ्या
समाचरंल्लोके नृणां बहुमतो भवेत् ॥"
कश्चिद्विरही प्रियतमामनुध्यायति —
आलम्ब्याङ्गणवा[^३]टिकापरिसरे चूतद्रुमे मञ्जरीं
सर्पत्सान्द्रपरागलम्पटर[^४]टद्भृङ्गाङ्गनाशोभिनीम् ।
मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य बाला स्फुर-
त्कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥ ७८ ॥
[^१.] "गत्वा वासगृहे जडे" इति शृङ्गारदीपिका. [^२.] "चेलाञ्चलम्" इति शृङ्गारदीपिका.
[^३.] "वापिका" इति शृङ्गारदीपिका. [^४.] "रणत्" इति शृङ्गारदीपिका.