This page has been fully proofread once and needs a second look.

गाढौष्ठ[^१]ग्रहपूर्वमाकुलतया पादाग्रसंदंशके-
नाकृष्याम्बरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥ ७४ ॥
 
तेन धूर्तेन स्वच्छन्दमधरपीडनपूर्वकमनङ्गपर्याकुलतया चरणाग्रस्थाङ्गुलियन्त्रेण म-
न्नितम्बसिचयं मोचयित्वा तत्कालयोग्यमात्मनो यत्समीहितं तत्प्रक्रान्तम् । अत्र संनि-
वेशवशेन पुरुषायितम् । तथा आत्मनो यदुचितं न तु मम । तेनाग्राम्यत्वं लज्जा च ।
किं कृत्वा । इति हृदये मामारोप्य । इति किम् । हे सुकुमाराङ्गि, इदानीमिदं तल्पं कर्क-
शम् । कस्मात् । निर्भरमालिङ्गनोद्घटितचन्दनरजःपुञ्जप्रसञ्जनात् । इयं च नायिका प्रौ-
ढत्वेन मनस्विनी पूर्वमासीत् । अन्यथा सात्त्विकस्वेदेन चन्दनरजो नोपपद्यते ॥
 
कथमपि कृ[^२]तप्रत्याख्याने प्रिये स्खलितोत्तरे
विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम् ।
असहनसखीश्रोत्रप्रा[^३]प्तिप्रमादससंभ्रमं
विग[^४]लितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥ ७५ ॥
 
सापराधे प्रिये कथमपि प्रणामशपथादिभिः कृतनिराकरणे सति । अथ तस्यै गोत्र-
स्खलितावसरे सुबहुदिवसमानात्मकविरहदुर्बलतया यथाकथंचित्संगमलौल्येन संप्रतिपि-
त्सया परिजनव्यापारादिकं व्याजं विधायाश्रुतं नाटितम् । अथ चासहनवयस्याकर्णे-
ऽन्याङ्गनानामप्राप्तिः सैव प्रमादस्तेन पर्याकुलं यथा भवत्येवं बाष्पायितदृष्ट्या शून्ये वे-
श्मनि पुनः समुच्छ्वसितम् । निवृत्ते रुदिते यदि प्राणी रुदितहेतुभूतां दुरवस्थामनुस्मरति
तदोत्कम्पितहृदयः पुनरुच्छ्वसिति । संगमलोभेन सैव नायिका परगोत्रस्खलनं सहते न
तु सखी । तस्मात्तयैवं चिन्तितं यद्येतद्गोत्रस्खलनमसहनसखीकर्णे प्रमादात्पतितं भवति
तदाहमपि लघ्वी कथं जीवामि । अतिबहुमानसंभावनायाः ससंभ्रममिति विशेषणम् ॥
 
आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया
विच्छि[^५]न्नेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।
दत्त्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन्क्षणे
मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥ ७६ ॥
 
कयाचिदध्वगवध्वा सकलं दिवसं यावद्दृष्टिः प्रसरति तावदन्तरे दयितस्यागमनपद्ध-
तिमुद्ग्रीविकया वीक्ष्य प्राणनिरपेक्षतारम्भकं निर्वेदं प्राप्तया वासरान्ते विरलसंचारेषु व-
र्त्मसु तमसि सम्यगुत्कटं प्रसरति सति निष्प्रत्याशया सशुचा गृहं प्रति पदमेकं क्षिप्त्वा-
 
[^१.] "ग्रहपीडनाकुलतया" इति शृङ्गारदीपिका. [^२.] "कृतप्रत्यापत्तौ" इति शृङ्गारदी-
पिका. [^३.] "प्राप्तिं विशङ्क्य" इति शृङ्गारदीपिका. [^४.] "विवलितदृशा" इति शृङ्गारदी-
पिका. [^५.] "विश्रान्तेषु" इति शृङ्गारदीपिका.