This page has been fully proofread once and needs a second look.

चने मुद्रयित्वा स्थितः । किंविशिष्ट इव । कैतवेन कुशेशयकिंजल्कदूषितदृष्टिरिव । अथ
सा मुग्धा नायमधरक्षतप्रकाशापह्नवार्थमभिनयं करोति, किं तु मत्प्रहारदूषितदृष्टित्वेन
व्यथित एवेति या भ्रान्तिस्तया । अथवाभिनयं जानाति परं प्रेम्णः कुटिलस्वरूपत्वा-
ल्लुण्ठनार्थं या धूर्तता तया मुकुलिताननमृगाङ्कं यथा भवत्येवं वदनमारुतं निश्चला सती
तस्य लोचनयोर्ददती तेन प्रणामोपायं विनैव सिद्धसमीहितेन वारंवारं चुम्बिता । भ्रा-
न्तिपक्षे प्रियतमस्यापराधग्रहणं तावद्दूरत एवास्ताम्, प्रत्युत प्रहरणीकृतपङ्कजकिंजल्कक-
ल्कदूषितदृष्टिरिति स्वयमपराधिनी जाता। अतः कुड्मलिताननेत्यनेनानुल्बणमुखमारु-
तवितरणप्रयत्नः । अन्यथा चुम्बनार्थमभियुक्ता कोपेन पराङ्मुखी भवति । मौग्ध्यमप्ये-
तस्मिंस्तदिति प्रत्यय एव । न तु वयोमौग्ध्यम् । धूर्ततयेत्यनुपपन्नत्वात् । धूर्ततापेक्षया
च स्थितेत्यत्र प्रियप्रत्यासत्तिजनितेन हर्षातिरेकेणापराधविस्मरणं हेतुः । अत एव
प्रणत्युपायं विनैव तेन चुम्बिता । अत्र केचिद्वायुपदेन जुगुप्साश्लीलमिति दोषमाचक्षते ।
तद्यदि कीरदेशे कुड्मलिताननेन्दुपदसंनिधावपि कमलपरिमलोद्गारिणो मुखमारुतस्य
प्रतीतिर्न भवति भवति चाश्लीलप्रतीतिस्तदा वाग्देवतादेश इति व्यवसितव्य एवासौ ।
किं तु ह्लादैकमयीवरलब्धप्रसादौ काव्यप्रकाशकारौ प्रायेण दोषदृष्टी येनैवंविधेष्वपि पर-
मार्थसहृदयानन्दमन्त्रे(पदे)षु सरसकविसंदर्भेषु दोषमेव साक्षादकुरुताम् । उक्तं च भ-
ट्टवार्तिके — "न चाप्यतीव कर्तव्यं दोषदृष्टिपरं मनः । दोषो ह्यविद्यमानोऽपि तच्चित्तानां
प्रकाशते ॥" इति ॥
 
काचित्सखी कोपनिर्धूतभर्तृकायाः पश्चात्तापमपरस्याः प्रतिपादयति —
 
स्फुटतु हृदयं कामः कामं करोतु तनुं तनुं
न सखि चपलप्रेम्णा कार्यं पुनर्दयितेन मे ।
इति सरभसं मा[^१]नावेशादुदीर्य वचस्तया
रमणपदवी सारङ्गाक्ष्या निर[^२]न्तरमीक्षिता ॥ ७३ ॥
 
तया कुरङ्गलोचनया गतवतो रमणस्य पदवी निरन्तरं निर्वर्णिता । किं कृत्वा । इत्य-
मुना प्रकारेणापर्यालोचिताध्यवसितत्वेन सरभसं यथा भवत्येवं मानावेशवशाद्वचनमु-
चार्य । इति कथम् । हे सखि, संततचिन्ताप्राग्भारेण हृदयं मे विदीर्यताम् । स्वेच्छया
मन्मथस्तनुं दुर्बलां करोतु । क्षणिकप्रेम्णा प्रियेण न किंचित्प्रयोजनम् । धृत्यौत्सुक्ये
व्यभिचारिभावौ ॥
 
काचित्कान्तैकान्तवृत्तान्तं सख्याः कथयति —
 
गा[^३]ढाश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षादियं
शय्या संप्रति कोमलाङ्गि परुषेत्यारोप्य मां वक्षसि ।
 
[^१.] "कोपाटोपात्" इति शृङ्गारदीपिका. [^२.] "सशङ्कितं" इति शृङ्गारदीपिका. [^३.] "प-
श्याश्लेष" इति शृङ्गारदीपिका.