2022-10-17 04:57:04 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
प्रणयिजनस्यैवोपरोधोऽस्त्विति भावः । विरोधोऽलंकारः । यदुक्तम् – '— "यस्मिन्द्रव्यादीनां
परस्परं सर्वथा विरुद्धानाम् । एकत्रावस्थानं समकालं भवति स विरोधः'" ॥
काचिन्मनखिस्विनी दयितमुपालभते-
त —
त[^१]थाभूदस्माकं प्रथममैम[^२]विभक्ता तनुरियं
तैत[^३]तो न त्वं प्रेयानहमपि हताशा प्रियतमा ।
तदानीं नाथस्त्वं वयमपि कलत्रं किमपरं
मैम[^४]याप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥ ६९ ॥
आदौ तावदियमस्माकं तनुस्तथानिर्वचनीयेन प्रकारेणाविभक्ता जाता । संयोगाभावः
कदाचिदपि नासीदित्यर्थः । अत एवैक्यप्रतिपादकस्तनुरियमिति प्रयोगः, न तु तनू इमे
इति । आवयोरिति वाच्ये प्रणयबहुमानादस्माकमिति । तदनन्तरं न त्वं प्रेयान् अह-
मपि हताशा न प्रियतमेति ज्ञानमविभागेऽपि भेदमाचष्टे । तदतिशायी तादात्म्येन स्त्री-
पुरुषभेदोऽपि निवृत्त इत्यर्थः । इदानीं गवामिव त्वमस्माकं पतिः वयमप्यग्निसाक्षितया
परिणीता इति यावज्जीवं भर्तव्या इति कलत्रम् । न तु प्रेमगन्धोऽपि । तदेतस्मादपि
किमन्यत् । केवलं त्वयि पराङ्मुखे येन गजोन्मूलितकोमलमृणालनालन्यायेन विशुष्का-
स्तेन तेषां वज्रकर्कशानां प्राणानामिदं नाथकलत्रव्यवस्थारूपं फलमासादितम् । अथ
च कारणानुरूपं कार्यमिति कर्कशानां फलमपि कर्कशमेवेत्यर्थः ॥
मुग्धे मुग्धतयैव नेतु[^५]मखिलः कालः किमारभ्यते
मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि ।
संस[^६]ख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना
नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोप्यति ॥ ७० ॥
काचिदमुना प्रकारेण सख्या प्रतिबोधिता सती प्रतिवचनमाह- — नीचैः शंस । य-
स्मात्त्वय्युच्चैरुच्चरन्त्यां मम हृदये कृतास्पदः प्राणेश्वरः श्रोष्यति । तवोपरि क्रुद्धो भवि-
ष्यतीति भावः । अथ च प्राणनाथोऽयं यस्य हस्ते स जयतीति (?) यद्यहमनेन सह वि-
प्रतिपद्ये तदा मे प्राणान्गृहीत्वा तिष्ठतीति । अत एव भीतानना । संकुचितत्वेन भीत-
मिवाननं यस्याः सा तथा । इयं च मुग्धा तदेकताने हृदि प्राणेश्वरं साक्षादेव स्थितं
मन्यते । एवं कथं प्रतिबोधितेत्याह–— हे मुग्धे, बाल्यदुर्ललितेनैव सर्वः कालोऽतिवा-
हितुं कस्मादारभ्यते त्वया । केवलं मुग्धेत्याशङ्कनीया भविष्यसि । तस्मादीर्ष्याकारणं
विनापि मानं धारय । माने धृते कथमवस्थातुं प्रभविष्यामीत्याह- — धृतिमवस्थापय । न-
[^१. '] "पुरा'" इति शृङ्गारदीपिका. [^२. '] "अविछि (मिभि) न्ना'" इति शृङ्गारदीपिका. [^३. '] "त-
तोऽनु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः'" इति शृङ्गारदीपिका. [^४. '] "हतानां'" इति
शृङ्गारदीपिका. [^५. '] "अखिलं कालं'" इति शृङ्गारदीपिका. <error>५. '</error><fix>[^६.]<fix>"सख्येदं'" इति शृङ्गारदीपिका.
परस्परं सर्वथा विरुद्धानाम् । एकत्रावस्थानं समकालं भवति स विरोधः
काचिन्मन
त
त[^१]थाभूदस्माकं प्रथम
तदानीं नाथस्त्वं वयमपि कलत्रं किमपरं
आदौ तावदियमस्माकं तनुस्तथानिर्वचनीयेन प्रकारेणाविभक्ता जाता । संयोगाभावः
कदाचिदपि नासीदित्यर्थः । अत एवैक्यप्रतिपादकस्तनुरियमिति प्रयोगः, न तु तनू इमे
इति । आवयोरिति वाच्ये प्रणयबहुमानादस्माकमिति । तदनन्तरं न त्वं प्रेयान् अह-
मपि हताशा न प्रियतमेति ज्ञानमविभागेऽपि भेदमाचष्टे । तदतिशायी तादात्म्येन स्त्री-
पुरुषभेदोऽपि निवृत्त इत्यर्थः । इदानीं गवामिव त्वमस्माकं पतिः वयमप्यग्निसाक्षितया
परिणीता इति यावज्जीवं भर्तव्या इति कलत्रम् । न तु प्रेमगन्धोऽपि । तदेतस्मादपि
किमन्यत् । केवलं त्वयि पराङ्मुखे येन गजोन्मूलितकोमलमृणालनालन्यायेन विशुष्का-
स्तेन तेषां वज्रकर्कशानां प्राणानामिदं नाथकलत्रव्यवस्थारूपं फलमासादितम् । अथ
च कारणानुरूपं कार्यमिति कर्कशानां फलमपि कर्कशमेवेत्यर्थः ॥
मुग्धे मुग्धतयैव नेतु[^५]मखिलः कालः किमारभ्यते
मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि ।
नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोप्यति ॥ ७० ॥
काचिदमुना प्रकारेण सख्या प्रतिबोधिता सती प्रतिवचनमाह
स्मात्त्वय्युच्चैरुच्चरन्त्यां मम हृदये कृतास्पदः प्राणेश्वरः श्रोष्यति । तवोपरि क्रुद्धो भवि-
ष्यतीति भावः । अथ च प्राणनाथोऽयं यस्य हस्ते स जयतीति
प्रतिपद्ये तदा मे प्राणान्गृहीत्वा तिष्ठतीति । अत एव भीतानना । संकुचितत्वेन भीत-
मिवाननं यस्याः सा तथा । इयं च मुग्धा तदेकताने हृदि प्राणेश्वरं साक्षादेव स्थितं
मन्यते । एवं कथं प्रतिबोधितेत्याह
हितुं कस्मादारभ्यते त्वया । केवलं मुग्धेत्याशङ्कनीया भविष्यसि । तस्मादीर्ष्याकारणं
विनापि मानं धारय । माने धृते कथमवस्थातुं प्रभविष्यामीत्याह
[^१.
तोऽनु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः
शृङ्गारदीपिका. [^५.