This page has been fully proofread once and needs a second look.

त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे
किसलयमृदुर्जीवेदेवं कथं प्रमदाजनः ॥ ६७ ॥
 
हे नाथ, विषमेषुर्युवयोस्तनुं दुर्बलां करोति । किंविशिष्टः । प्रतिकूलः । कीदृशः
सन्प्रतिकूलः । विरहे विषमः । संभोगे पुनरनूकूल एवेत्यर्थः । शरीरकार्श्योपन्यासेनैवं
प्रतिदिनोत्पद्यमानक्षीणताया कतिपयदिवसैः संभोगयोग्यतैव युवयोरस्तमेष्यतीत्यर्थः ।
अयमिति प्रत्यक्षनिर्देशेन पुर इव वर्तमानो निरनुक्रोशोऽन्तकश्च दिवसगणनादक्षः एवं-
विधानपि दिवसांल्लेखयति । संभोगे विप्रलम्मे चायुःक्षयस्तावदस्त्येव । तस्माद्विप्रलम्भे
मृत्युर्वरमुतस्वित्संभोग इति यमशब्दस्योपयोगः । देहदौर्बल्येन संभोगपरिहारेण च मान
एव व्याधिस्तस्य त्वमपि वशगः । अद्य यावन्मयैवं ज्ञातमासीद्यत्सैव मानव्याधेर्वशगेत्य-
पिशब्दार्थः । तस्माद्विचिन्तय, एवमुत्पातपरम्परया प्रमदाजनः कथं जीवति । प्रस्तुते
एकस्यामपि प्रमदायां प्रमदाजन इति जात्यपेक्षया लोकोक्तिः । अथवा प्रकृष्टो मदो
रिरंसालक्षणो मान्मथो विकारो यस्याः सा प्रमदा । सैव विधेयत्वेन जनः । अथवा
नायकस्यानेकनायिकास्पृहणीयत्वेन प्रमदासमूह एवास्तु । किंविशिष्टः । किसलयमृदुः ।
विरहदुरवस्थां सोढुमक्षम इत्यर्थः । अथ च किसलयकोमलं प्रमदाजनमालिङ्ग्य किमिति
चरितार्थो न भवसीति । असत्समुच्चयोऽलंकारः ॥
 
कश्चित्प्रियामानोपशान्तिं कस्यचिद्विस्रम्भसंभावितस्याग्रे कथयति —
 
पादासक्ते सुचिरमिह ते वामतां कैव[^१] मुग्धे
मन्दारम्भे प्रणयिनि जने कोऽप[^२]राधोपरोधः ।
इत्थं तस्याः प[^३]रिजनकथाकोमले कोपवेगे
बाष्पोद्भेदैस्तदनु सहसा न स्थितं न प्रवृत्तम् ॥ ६८ ॥
 
तस्यास्तदनन्तरं त्वरितमेव बाष्पोत्पीडैर्न विलम्बितं न च स्पन्नम् । क्व सति । कोप-
वेगे सति । किंविशिष्टे । सखीप्रायपरिजनस्येत्थं संबोधकथया शिथिले न तु दृढे । को-
पवेगस्य कोमलतयाश्रुभिर्न स्थितम् । कोपसत्तया च न प्रवृत्तम् । स्तम्भितैरेव जात-
मित्यर्थः । इत्थं कथमित्याह — हे अचेतने, इह प्रणयिनि जने सुचिरं चरणलग्ने कैव तव
वामता । प्रातिकूल्यं न युज्यत इत्यर्थः । अथ च येन स्वेदरोमाञ्चप्रभृतयो भवन्ति त-
स्मिन्नपि दयितशरीरस्पर्शे तव कठिनायाश्चेतसि मानस्तिष्ठतीति भावः । ननु सापरा-
धोऽयं वामतां कथं त्यजामीत्याह — अस्मिन्मन्दारम्भे । कोऽर्थः — दोषोद्घोषणे कृतेऽपि
निरुत्तरतया नम्रमुखे यथाकथंचित्प्रसादमेवाकाङ्क्षति सति । तस्मादपराधस्य क उपरोधः ।
 
[^१.] "नैव कान्ते" इति शृङ्गारदीपिका. [^२.] "कोपने कोऽपराधः" इति शृङ्गारदीपिका.
[^३.] "परिजनगिरा कोपवेगे प्रशान्ते" इति शृङ्गारदीपिका.