This page has not been fully proofread.

नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती
पश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥ ५८ ॥
 
यथा यथा मौग्ध्यमपगतं तथा तथा प्रियसंगमबाहुल्येनोपलब्धे प्रेम्णि आस्वादा-
मिज्ञा संवृत्ता सती इत्थममुना प्रकारेण तरुणी पश्चात्तापं बिभर्ति । किं कुर्वती । इति
स्वमेव नववधूचेष्टितं चिन्तयन्ती । इति किम् । मया मन्दर्भाग्यया किमिति न प्राणेश्वरः
कण्ठे आलिङ्गितः । तस्मिन्परिरब्धुमुद्यते मया भुजाभ्यां निजमुरः किं पिहितमित्यर्थः ।
अस्मिंश्रुम्बति सति वदनविनतिः किमिति मया कृता । प्रतिचुम्बनं किमिति नारब्धमि-
सर्थः । किमिति न दृष्टः सततं नीरैशीलम्बनव्यग्रया सम्यक्कदाचिदपि स्फारीकृतलो-
चनया नावलोकित इत्यर्थः । नोक्तः कस्मात् । तस्मिन्सविलासमालपति सति प्रत्यु-
त्तरं किं न दत्तम् । अवनतवदनया स्थितमेवेत्यर्थः । तारुण्ये संगमसुखमनुभवन्ती मौ-
ग्ध्येन तदाहं वञ्चितेति चिन्तयतीति भावः ॥
 
काचिदपमानितानुनया पश्चात्तापयुक्ता यदि त्वं तेन विना स्थातुं न शक्नोषि तत्कि-
मिति मानं करोषीति सख्या निर्भसिता तां प्रत्याह-
श्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्गं समन्ता-
दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि ।
तस्मिन्नागत्य कण्ठग्रहनिकटपदस्थायिनि प्राणनाथे
 
भग्ना मानस्य चिन्ता भवति मैयि पुनर्वज्रमय्यां कदाचित् ॥ ५९॥
नाहं सर्वदैव मानं करोमि किंवत्यन्तकठिनायां मयि निन्द्या मानचिन्ता कदाचिदु-
त्पद्यते । क्व सति । तस्मिन्प्राणेश्वरे प्रसादन तात्पर्येणागत्य कपोलचुम्बनप्रत्यासन्नस्थानस्था-
यिन्यपि । कोऽर्थः । यस्मिन्नवसरे चुम्बनं युज्यते तस्मिन्नाहं मानं करोमि । तस्मिन्प्रा-
णेश्वरे कीदृशे । यस्य नामाप्याकर्ण्य व्यक्तसान्द्ररोमाञ्चं ममाङ्गं सर्वतो जायते । यस्य व
ऋचन्द्रमसमवलोक्येदं वपुरुद्भिन्नस्वेदबिन्दुजालतया चन्द्रकान्तमणिसदृशं भवति । द-
यितमुखं दृष्ट्वा विद्यामीति पर्यवसितत्वाद्भिन्नकर्तृकता नाशङ्कनीया । अयमपि श्लोकः
प्रक्षेपक इति संभाव्यते । परं विरुद्धो नास्ति । एवंविधा अन्येऽप्यन्तरान्तरा द्वित्राः
सन्ति । तेऽप्यविरुद्धा इति व्याख्यास्यन्ते ॥
 
लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले
 
वक्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः ।
दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो
 
लीलातामरसोदरे मृगदृशः श्वासा समाप्तिं गताः । ६० ॥
 
१. नीरङ्गी मुखाच्छादनवस्त्रम्. २. 'यत्समन्तात्' इति शृङ्गारदीपिका. ३. 'मम'
इति शृङ्गारदीपिका. ४. 'कथंचित्' इति शृङ्गारदीपिका.