This page has been fully proofread once and needs a second look.

'"पीतो यतःप्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः
तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र किमत्र चित्रम् ॥'"

नूनं शा[^१]कंभरीखनिकर्मकर एष महानुभावः कविः ॥
 
नूनमियं श्लोककन्था कुतार्किकच्छान्दसवैयाकरणैर्ग्रथिता । यदुक्तमुपाध्यायेन–' — "संप-
र्केण कुतर्काणां छन्दोव्याकरणस्पृशाम् । उड्डीयते रसः खण्डैः पावकेनेव पारदः'"

बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं

खेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि ।
तत्किकिं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते

-
 
नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥ ५७ ॥

कश्चिन्मानिनी मनुनेतुं संबोधयति- हे मुग्नेधे । नायिका वक्ति - हे नाथ । नायकः -
विमुश्ञ्च मानिनि रुषम् । नायिका - रोषान्मया किं कृतम् । अपि तु न किमपि । को-
ऽभिप्रायः -
:-
न ते किंचिद्विरुद्धमुक्तम् । न च ताडनादिकं कृतम् । नापि तत्र गच्छ-
न्वारितोऽसि । स्वशरीरेण दुरवस्थामनुभवन्ती तिष्ठामि । नायकः - रोषात्त्वया किमपि
न कृतमित्येव न परमस्मासु खेदः कृतः । नायिका - खेदस्तस्योपपद्यते योऽपराधी भ-
वति । भवांस्तु न मेऽपराध्यति । विपरीतलक्षणया विधिरत्र । सर्वेऽपराधा मयि । मया
यत्त्वमुपेक्षितस्तेनैवमुच्छृङ्खलो जातः । नायकः - उक्तेरभिप्रायमजानन्निव, तल्कित्किं रोदिषि
गद्गदेन वचसा । नायिका – कस्याप्— कस्याग्रतो रुद्यते । त्वमन्यासक्तो न मे कष्टं जानासि ।
त्वां च विहाय ममान्या गतिर्नास्तीति भावः । नायकः- पूर्ववत् । नन्वेतन्ममाग्रतो रु-
द्यते । नायिका का तवास्मि । उदासीनो मयि सांप्रतं भवानित्यर्थः । नायकः -व-
लभा त्वं मे । नायिका - नास्मीत्यतो रुद्यते । कोऽर्थः दयिता नास्मि योषित्संबन्धः
पुनरस्त्येव । प्रश्नोत्तरमलंकारः । न तु वक्रोक्तिः । शब्दश्लेषकाकोक्वोरभावात् । यत्क्वचि-
दर्थान्तरमत्र प्रतीयते तद्व्यङ्ग्यमेव । वक्रोक्तेरुदाहरणं चैतत् - '— "किं गौरि मां प्रति रुषा
ननु गौरहं किं कुप्यामि कां प्रति मयीत्यनुमानतोऽहम् । जानाम्यतस्त्वदनुमानत एव स-
त्यमित्थं गिरो गिरिभुवः कुटिला जयन्ति ॥' '" "गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो
गन्तुम् । अलिकुलको किलललिते नैष्यति सखि सुरभिसमयेऽसौ ॥'" धीराधीरा मध्या
नायिका । '"न मेऽपराध्यति भवान्सर्वेऽपराधा मयि'" इत्यनेन धैर्यम्। '"चापल्यरहिता धैर्यं
हृद्वृत्तिरविकत्थना ॥'
 
"
 
श्
लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथ-
श्चुम्बत्यस्मिन्वदनविनतिः किं कृता किं न दृष्टः
 
[^१.] शाकंभरी राजपूतानादेशान्तर्वर्ती '"सांभर'" इति प्रसिद्धो, लवणाकरः.