This page has been fully proofread once and needs a second look.

रम्यं स्वादु सुगन्धि स्वयं करे पतितम् । फलमुत्सृज्य तदानीं ताम्यसि मुग्धे मुधे-
दानीम् ॥

अत्रान्तरे बहवः प्रक्षेपकश्लोकाः सन्ति । तत्र विचारः यः कश्चित्खास्वाञ्श्लोकान्र-
चयित्वा परकाव्ये प्रक्षिपति स तावन्न प्रसिद्धये, स्वनामलेखनाभावात् । तस्मादेवं सं-
भाव्यते - यद्यस्मिन्सार्वपार्षदे काव्ये मम श्लोका अर्हन्ति तदाहं विशिष्टः कविरिति
प्रक्षेपककवेराशयः । तेऽपि सन्तु यथा विसदृशनीरलहरीलेह्यस्वराणां (?) गायनाना-
मोडवप्रयोगेनातोद्यलास्यानुविधानशालिनि रक्तिनिर्भरगीतलास्यमानमनसां प्रविष्टा-
नामातोद्यकराणां ततसुषिरघनावनद्धात्मनि वादित्रे मन्दमुन्मुद्रितनिनादे नायिकानां
नानाविधदृष्टिवृष्टिभिराप्यायितविदग्धचेतसां ललितहस्तकचारी चमत्कारेणाञ्चितत्भ्रमि-
तनमितकुञ्चितस्तिमितक्षिप्तक्षुभितावयवानां कुचकलश नितम्बडम्बरान्तरतरङ्गितोद्व-
लितललितवलिभागानां क्वचिद्विस्रब्धमिव क्वचित्त्वरितत्वरितमिव क्वचिद्भीतभीतमिव
क्वचित्सुप्तसुप्तमिव क्वचिदुन्निद्रितोन्निद्रितमिव सान्द्रमुख रागमनोभवमनोज्ञं नृत्यन्तीनाम-
न्तरेऽट्टचेटकास्तथानिर्वचनीयचमत्काराणाममरुकश्लोकानां मध्ये छन्दोमात्रमेलनेन हा-
सोत्पादकतया च प्रक्षेपक श्लोकाः ते यथा -
 
'मै

 
"म[^१]
न्दं मुद्रितपांसवः परिपतज्झांकारिझञ्झामरु-
द्वेगव्यस्त कुटीरकाग्रनिपतच्छिद्रेषु लब्धान्तराः ।
कर्मव्यग्रकुटुम्बिनीकु चभरस्वेदच्छिदः प्रावृषः

प्रारम्भे मदयन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥

अमी झञ्झानिलाः शिरोर्तिमुत्पादयन्ति विदुषाम् ॥
 
'"इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा ।
पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितहारिणी ॥"
 
जीवितहारिणी शाकिनी ॥
 
'"सालक्तकं शतदलाधिककान्तिरम्यं रत्नौघधामनिकरारुणनूपुरं च ।
क्षिप्तं भृशं कुपितया मृगनेत्रया यत्सौभाग्यचिह्नमिव मूर्ध्नि पदं विरेजे ॥"

इयं सा भद्रदेशिनां सर्वस्त्रंवं सौभाग्यस्योपरिमञ्जरी (?) ॥
 
'"श्रुत्वाकस्मान्निशीथे नवघनरसितं विश्लथाङ्गं पतन्त्या
शय्याया भूमिपृष्ठे करतलधृतया दुःखितालीजनेन ।
सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटापात शीर्णाश्रुबिन्दु

स्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थवध्वा ॥'"

वियोगमर्म निगूढं दुःखमेवोपवर्णयन्ति । तद्विपर्ययादियं मिथ्यामरण निःसृताया
योषितो मांधारिका (?) ॥
 
[^१.] इतः प्रभृति प्रक्षिप्तं श्लोकपञ्चकं शृङ्गारदीपिकायामपि नास्ति.